265-a
कपित्थबिल्वबृहतीपटोलेक्षुनिदिग्धिकाः ॥ ५ ॥
मूलानि क्षीरसिद्धानि दापयेद्भिषगष्टमे ।
नवमे मधुकानन्तापयस्याशारिवाः पिबेत् ॥ ६ ॥
पयस्तु दशमे शुण्ठ्या शृतशीतं प्रशस्यते ।
सक्षीरा वा हिता शुण्ठी मधुकं देवदारु च ॥ ७ ॥
एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ।
कुशकाशोरुबूकानां मूलैर्गोक्षुरकस्य च ।
शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलनुत्परम् ॥ ८ ॥
कशेरुशृङ्गाटकजीवनीय-
पद्मोत्पलैरण्डशतावरीभिः ।
सिद्धं पयः शर्करया विमिश्रं
संस्थापयेद्गर्भमुदीर्णशूलम् ॥ ९ ॥
कशेरुशृङ्गाटकपद्मकोत्पलं
समुद्गपर्णीमधुकं सशर्करम् ।
सशूलगर्भस्रुतिपीडिताङ्गना
पयोविमिश्रं पयसान्नभुक् पिबेत् ॥ १० ॥
गर्भे शुष्के तु वातेन बालानां चापि शुष्यताम् ।
सितामधुककाश्मर्यैर्हितमुत्थापने पयः ॥ ११ ॥
गर्भशोषे त्वामगर्भाः प्रसहाश्च सदा हिताः ।