269-a
स्याच्छिथिलापि च गाढा
सुरगोपाज्याभ्यङ्गसङ्गतो योनिः ।
शरवहलस्थिरबन्धन-
रज्ज्वा सन्ताडनाद्धि दयितेन ॥ ६५ ॥
नश्यत्यबलाद्वेषः पत्यौ सहजः कृतोऽथवा योगैः ।
दत्त्वैव दुग्धभक्तं विप्रायोत्पाट्य सितबलामूलम् ।
पुष्ये कन्यापिष्टं दत्तमनिच्छाहरं भक्ष्ये ॥ ६६ ॥

Adhikāra 63

कुष्ठवचाभयाब्राह्मीकमलं क्षौद्रसर्पिषा ।
वर्णायुःकान्तिजननं लेहं बालस्य दापयेत् ॥ १ ॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् ।
तर्काधो गुडिकां तप्तां निर्वाष्य कटुतैलके ।
तत्तैलं पानतो हन्ति बालानामुल्बमुद्धतम् ॥ २ ॥
व्योषशिवोग्रा रजनी कल्कं वा पीतमथ पयसा ।
उल्बं निःशेषं कुरुते पटुतां वालस्य चात्यन्तम् ॥ ३ ॥
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ।
स्वेदयेदुत्थितां नाभिं शोथस्तेन प्रशाम्यति ॥ ४ ॥
नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ।
तैलमभ्यञ्जने शस्तमेभिर्वाप्यवचूर्णनम् ॥ ५ ॥