Adhikāra 63

कुष्ठवचाभयाब्राह्मीकमलं क्षौद्रसर्पिषा ।
वर्णायुःकान्तिजननं लेहं बालस्य दापयेत् ॥ १ ॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् ।
तर्काधो गुडिकां तप्तां निर्वाष्य कटुतैलके ।
तत्तैलं पानतो हन्ति बालानामुल्बमुद्धतम् ॥ २ ॥
व्योषशिवोग्रा रजनी कल्कं वा पीतमथ पयसा ।
उल्बं निःशेषं कुरुते पटुतां वालस्य चात्यन्तम् ॥ ३ ॥
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ।
स्वेदयेदुत्थितां नाभिं शोथस्तेन प्रशाम्यति ॥ ४ ॥
नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ।
तैलमभ्यञ्जने शस्तमेभिर्वाप्यवचूर्णनम् ॥ ५ ॥
269-b
सोमग्रहणे विधिवत्
त्केक्रिशिखामूलमुद्धृतं बद्धम् ।
जघनेऽथ कन्धरायां
क्षपयत्यहिण्डिकां नियतम् ॥ ६ ॥
सप्तदलपुष्पं मरिचं पिष्टं गोरोचनासहितम् ।
पीतं तद्वत्तण्डुलभक्तकृतो दग्धपिष्टकप्राशः ॥ ७ ॥
जम्बूकनासावायसजिह्वा नाभिर्वराहसंभूता ।
कांस्यं रसोऽथ गरलं प्रावृड्भेकस्य वामजङ्घास्थि ॥ ८ ॥
इत्येकशोथमिलितं विधृतं ग्रीवादिकटिदेशे ।
अहिण्डिकाप्रशमनमभ्यङ्गो नातिपथ्यविधिः ॥ ९ ॥
अनामके घुर्घुरिकाबुक्कामरिचरोचना ।
नवनीतं च संमिश्र्य खादेत्तद्रोगनाशनम् ॥ १० ॥
तैलाक्तशिरस्तालुनिसप्तदलार्कस्नुहीभवं क्षीरम् ।
दत्त्वा रजनीचूर्णे दत्ते नश्येदनामकोरोगः ॥ ११ ॥
लेहयेच्च शुना बालं नवनीतेन लेपितम् ।
स्फुटकपत्रजरसोद्वर्तनं च हि तद्धितम् ॥ १२ ॥
270-a
तैलस्य भागमेकं ।
मूत्रस्य द्वौ च शिम्बिदलरसस्य ।
गव्यं पयश्चतुर्गुण
मेवं दत्त्वा पचेत्तैलम् ।
तेनाभ्यङ्गः सततं रोगमनामकाख्यमपहरति ॥ १३ ॥
अर्कतूलकमाविकरोमाण्यादाय केशराजस्य ।
स्वरसेनाक्ते वस्त्रे कृत्वा वर्तिं च तैलाक्ताम् ॥ १४ ॥
तज्जातकज्जलाञ्जितलोचनयुगलोऽप्यलंकृतोबालः ।
कष्टमनामकरोगं क्षपयति भूतादिकं चापि ॥ १५ ॥
चालनिकातलसंस्थितपोतं संप्लाव्य गव्यमूत्रेण ।
ओकोदशालिकायां रजकक्षारोदकस्नानम् ॥ १६ ॥
दासक्रयणश्रावणवरा-
टिकारसेन्द्रपूरिता घृता कण्ठे ।
नलिनीदले च शयनं
सुकष्टमनामकाख्यरोगघ्नम् ॥ १७ ॥
भैषज्यं पूर्वमुद्दिष्टं नराणां यज्ज्वरादिषु ।
देयंतदेव बालानां मात्रा तस्य कनीयसी ॥ १८ ॥
प्रथमे मासि जातस्य शिशोर्भेषजरक्तिका ।
अवलेह्या तु कर्तव्या मधुक्षीरसिताघृतैः ॥ १९ ॥
एकैकां वर्धयेत् तावद्यावत्संवत्सरो भवेत् ।
तदूर्ध्वं मासवृद्धिः स्याद्यावदाषोडशाब्दिकाः ॥ २० ॥
270-b
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ।
शिशोर्ज्वरातिसारघ्नः कपायस्तस्य दोषजित् ॥ २१ ॥
घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ।
शिशोर्ज्वरातिसारघ्नं कासश्वासवमीहरम् ॥ २२ ॥
धातकीबिल्वधन्याकलोध्रेन्द्रयववालकैः ।
लेहः क्षौद्रेण वालानां ज्वरातीसारवान्तिजित् ॥ २३ ॥
रजनीदारुशरलश्रेयसी बृहतीद्वयम् ।
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ॥ २४ ॥
ग्रहणीदीपनं हन्ति मारुतार्तिं सकामलाम् ।
ज्वरातीसारपाण्डुघ्नं बालानां सर्वशोथनुत् ॥ २५ ॥
मिशी कृष्णाञ्जनं लाजा शृङ्गीमरिचमाक्षिकैः ।
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः ॥ २६ ॥
271-a
शृङ्गीं समुस्तातिविषां विचूर्ण्य
लेहं विदध्यान्मधुना शिशूनाम् ।
कासज्वरच्छर्दिभिरर्दितानां
समाक्षिकां चातिविषां तथैकाम् ॥ २७ ॥
पीतं पीतं वमेद्यस्तु स्तन्यं तन्मधुसर्पिषा ।
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत् ॥ २८ ॥
आम्रास्थिलाजसिन्धूत्थैर्लेहः क्षौद्रेण छर्दिनुत् ॥ २९ ॥
पिप्पलीमरिचानां तु चूर्णं समधुशर्करम् ।
रसेन मातुलुङ्गस्य हिक्काच्छर्दिनिवारणम् ॥ ३० ॥
पेटीपाठामूलाज्जम्ब्वः
सहकारवल्कलतः कल्कः ।
इत्येकशश्च पिण्डो
विधृतो हृन्नाभिमध्यताल्वादि ।
छर्द्यतिसारजं वेगं
प्रबलं धत्ते तदेव नियमेन ॥ ३१ ॥
बिल्वं च पुष्पाणि च धातकीनां
जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ
बालेषु योज्यावतिसारितेषु ॥ ३२ ॥
समङ्गाधातकीलोध्रशारिवाभिः शृतं जलम् ।
271-b
दुर्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥ ३३ ॥
नागरातिविषामुस्तवालकेन्द्रयवैः शृतम् ।
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् ॥ ३४ ॥
समङ्गा धातकी पद्मं वयस्या कच्छुरा तथा ।
पिष्टैरेतैर्यवागूः स्यात्सर्वातीसारनाशिनी ॥ ३५ ॥
बिल्वमूलकषायेण लाजाश्चैव सशर्कराः ।
आलोड्य पाययेद्बालं छर्द्यतीसारनाशनम् ॥ ३६ ॥
कल्कः प्रियङ्गुकोलास्थिमध्यमुस्तरसाञ्जनैः ।
क्षौद्रलीढः कुमांरस्य छर्दितृष्णातिसारनुत् ॥ ३७ ॥
मोचरसः समङ्गा च धातकी पद्मकेशरम् ।
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥ ३८ ॥
लेहस्तैलसिताक्षौद्रतिलयष्ट्याह्वकल्कितः ।
बालस्य रुन्ध्यान्नियतं रक्तस्रावं प्रवाहिकाम् ॥ ३९ ॥
लाजासयष्टीमधुकं शर्कराक्षौद्रमेव च ।
तण्डुलोदकसंसिक्तं क्षिप्रं हन्ति प्रवाहिकाम् ॥ ४० ॥
अङ्कोटमूलमथवा
तण्डुलसलिलेन वटजमूलं वा ।
पीतं हन्त्यतिसारं
ग्रहणीरोगं सुदुर्वारम् ॥ ४१ ॥
सितजीरसर्जचूर्णं
बिल्वदलोत्थाम्बुमिश्रितं पीतम् ।
हन्त्यामरक्तशूलं
गुडसहितः श्वेतसर्जो वा ॥ ४२ ॥
272-a
मरिचमहौपधकुटजं
द्विगुणीकृतमुत्तरोत्तरं क्रमशः ।
गुडतक्रयुक्तमेतद्
ग्रहणीरोगं निहन्त्याशु ॥ ४३ ॥
बिल्वशक्राम्बमोचाब्दसिद्धमाजं पयः शिशोः ।
समां सरक्तां ग्रहणीं पीतं हन्यात्त्रिरात्रतः ॥ ४४ ॥
तद्वदजाक्षीरसमो जम्बूत्वगुद्भवो रसः ।
गुदपाके तु बालानां पित्तघ्नीं कारयेत्क्रियाम् ॥ ४५ ॥
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥ ४६ ॥
१०कणोपणसिताक्षोद्रसूक्ष्मैलासैन्धवैः कृतः ।
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥ ४७ ॥
घृतेन सिन्धुविश्वैलाद्धिङ्गुभार्गीरजो लिहन् ।
आनाहं वातिकं शूलं जयेत्तोयेन वा शिशुः ॥ ४८ ॥
हरीतकी वचा कुष्टं कल्कं माक्षिकसंयुतम् ।
पीत्वा कुमारः स्तन्येन मुच्यते तालुपातनात् ॥ ४९ ॥
मुखपाके तु वालानां साम्रसारमयोरजः ।
गैरिकं क्षौद्रसंयुक्तं भेषजं सरसाञ्जनम् ॥ ५० ॥
अश्वत्थत्वग्दलक्षौद्रैर्मुखपाके प्रलेपनम् ।
दार्वीयष्ट्याभयाजातीपत्रक्षौद्रैस्तथापरम् ॥ ५१ ॥
272-b
सह जम्बीररसेन स्नुग्दलरसघर्षणं सद्यः ।
कृतमुपहन्ति हि पाकं मुखजं बालस्य चाश्वेव ॥ ५२ ॥
लावतित्तिरपल्लूररजः पुष्परसान्वितम् ।
द्रुतं करोति बालानां पद्मकेशरवन्मुखम् ॥ ५३ ॥
११दन्तोद्भवोत्थरोगेषु न बालमतियन्त्रयेत् ।
स्वयमप्युपशाम्यन्ति जातदन्तस्य ते गदाः ॥ ५४ ॥
सदन्तो यस्तु वा ये तु दन्ताः प्रोथस्य चोत्तराः ।
कुर्युस्तस्य कुतः शान्तिं बालस्यापि द्विजातयः ।
दद्यात्सदक्षिणं बालं नैनमेनं प्रपूजयेत् ॥ ५५ ॥
पञ्चमुलीकषायेण सघृतेन पयः शृतम् ।
सशृङ्गवेरं सगुडं शृतं हिक्कार्दितः पिबेत् ॥ ५६ ॥
सुवर्णगैरिकस्यापि चूर्णानि मधुना सह ।
लीढ्वा सुखमवाप्नोति क्षिप्रं हिक्कार्दितः शिशुः ॥ ५७ ॥
चित्रकं शृङ्गवेरं च तथा दन्ती गवाक्ष्यपि ।
चूर्णं कृत्वा तु सर्वेषां सुखोष्णेनाम्बुना पिबेत् ।
श्वासं कासमथो हिक्कां कुमाराणां प्रणाशयेत् ॥ ५८ ॥
द्राक्षायासाभयाकृष्णाचूर्णं सक्षौद्रसर्पिषा ।
लीढं श्वासं निहन्त्याशु कासं च तमकं तथा ॥ ५९ ॥
पुष्करातिविषाशृङ्गीमागधीधन्वयासकैः ॥
तच्चूर्णं मधुना लीढं शिशूनां पञ्चकासनुत् ॥ ६० ॥
दाडिमस्य च बीजानि जीरकं नागकेशरम् ।
चूर्णितं शर्कराक्षौद्रलीढं तृष्णाविनाशनम् ॥ ६१ ॥
273-a
१२मायूरपक्षभस्म
व्युषितजलं तेन भावितं पेयम् ।
तृष्णाघ्नं वटकाष्टक-
भस्मजलं वक्त्रशोषजिद्धृतं वक्त्रे ॥ ६२ ॥
पिष्टैश्छागेन पयसा दार्वीमुस्तकगैरिकैः ।
बहिरालेपनं शस्तं शिशोर्नेत्रामयापहम् ॥ ६३ ॥
मनःशिला शङ्खनाभिः पिप्पल्योऽथ रसाञ्जनम् ।
वर्तिः क्षौद्रेण संयुक्ता बाले सर्वाक्षिरोगनुत् ॥ ६४ ॥
मातुः स्तन्यकटुस्नेहकाञ्जिकैर्भावितो जयेत् ।
स्वेदाद्दीपशिखोत्तप्तो नेत्रामयमलक्तकः ॥ ६५ ॥
शुण्ठीभृङ्गनिशाकल्कः पुटपाकः ससैन्धवः ।
कुकूलकेऽक्षिरोगेषु भद्रमाश्च्योतनं हितम् ॥ ६६ ॥
क्रिमिघ्नालशिलादार्वीलाक्षाकाञ्चनगैरिकैः ।
चूर्णाञ्जनं कुकूले स्याच्छिशूनां पोथकीषु च ॥ ६७ ॥
सुदर्शनामूलचूर्णादञ्जनं स्यात्कुकूलके ॥ ६८ ॥
गृहधूमनिशाकुष्टवाजिकेन्द्रयवैः शिशोः ।
लेपस्तक्रेण हन्त्याशु सिध्मपामाविचर्चिकाः ॥ ६९ ॥
273-b
१३पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत् ।
घृतं पेयं कुमाराणां पुष्टिकृद्वलवर्धनम् ॥ ७० ॥
१४चाङ्गेरीस्वरसे सर्पिश्छागक्षीरसमे पचेत् ।
कपित्थव्योषसिन्धूत्थसमङ्गोत्पलबालकैः ॥ ७१ ॥
सबिल्वधातकीमोचैः सिद्धं सर्वातिसारनुत् ।
ग्रहणीं दुस्तरां हन्ति बालानां तु विशेषतः ॥ ७२ ॥
१५शङ्खपुष्पी वचा ब्राह्मी कुष्ठं त्रिफलया सह ।
द्राक्षा सशर्करा शुण्ठी जीवन्ती जीरकं बला ॥ ७३ ॥
शठी दुरालभा बिल्वं दाडिमं सुरसः स्थिरा ।
मुस्तं पुष्करमूलं च सूक्ष्मैला गजपिप्पली ॥ ७४ ॥
एषां कर्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ।
कषाये कण्टकार्याश्च क्षीरे तस्मिंश्चतुर्गुणे ॥ ७५ ॥
274-a
एतत्कुमारकल्याणघृतरत्नं सुखप्रदम् ।
बलवर्णकरं धन्यं पुष्ट्यग्निबलवर्धनम् ॥ ७६ ॥
छायासर्वग्रहालक्ष्मीक्रिमिदन्तगदापहम् ।
सर्वबालामयहरं दन्तोद्भेदं विशेषतः ॥ ७७ ॥
१६वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च ।
शारिवा सैन्धवं चैव पिप्पलीघृतमष्टमम् ॥ ७८ ॥
मेध्यं घृतमिदं सिद्धं पातव्यं च दिने दिने ।
दृढस्मृतिः क्षिप्रमेधाः कुमारो बुद्धिमान्भवेत् ॥ ७९ ॥
न पिशाचा न रक्षांसि न भूता न च मातरः ।
प्रभवन्ति कुमाराणां पिवतामष्टमङ्गलम् ॥ ८० ॥
१७लाक्षारससमं सिद्धं तैलं मस्तु चतुर्गुणम् ।
रास्नाचन्दनकुष्टाब्दवाजिगन्धानिशायुगैः ॥ ८१ ॥
शताह्वादारुयष्ट्याह्वमूर्वातिक्ताहरेणुभिः ।
बालानां ज्वररक्षोघ्नमभ्यङ्गाद्बलवर्णकृत् ॥ ८२ ॥
274-b
१८सहामुण्डितिकोदीच्यक्वाथस्नानं ग्रहापहम् ।
सप्तच्छदनिशाकुष्टचन्दनैश्चानुलेपनम् ॥ ८३ ॥
सर्पत्वग्लशुनं मूर्वासर्षपारिष्टपल्लवाः ।
बैडालविडजालोममेषशृङ्गीवचामधु ॥ ८४ ॥
धूपः शिशोर्ज्वरघ्नोऽयमशेषग्रहनाशनः ।
बलिशान्तीष्टकर्माणि कार्याणि ग्रहशान्तये ॥ ८५ ॥
मन्त्रश्चायं प्रयोक्तव्यस्तत्रादौ सर्वकामिकः ॥ ८६ ॥
१९“ओंं नमो भगवते गरुडाय त्र्यम्बकाय स-
द्यस्तवस्तुतः स्वाहा । ओंं कं पं टं शं वैनते-
याय नमः । ओंं ह्रीं ह्रूं क्षः” । बालदेहप्रमाणेन
पुष्पमालां तु सर्वतः । प्रगृह्य मच्छिकाभक्तबलि-
र्देयस्तु शान्तिकः । “ओंकारी स्वर्णपक्षी वालकं
रक्ष रक्ष स्वाहा” । गरुडबलिः । ओंं नारायणाय
नमः ॥ ८७ ॥
२०प्रथमे दिवसे मासे वर्षे वा गृह्णाति न-
न्दना नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । अशुभं शब्दं मुञ्चति आत्कारं
च करोति स्तन्यं न गृह्णाति । बलिं तस्य प्रव-
क्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृ-
त्तिकां गृहीत्वा पुत्तलिकां कृत्वा शुक्लौदनं शु-
क्लपुष्पं शुक्लसप्तध्वजाः सप्तप्रदीपाः सप्तस्व-
275-a
स्तिकाः सप्तवटकाः सप्तशष्कुलिकाः जम्बुलिकाः
सप्तमुष्टिकाः गन्धं पुष्पं ताम्बूलं मत्स्यं मांसं
सुरामग्रभक्तं च पूर्वस्यां दिशि चतुष्पथे मध्याह्ने
बलिर्देयः । ततोऽश्वत्थपत्रं कुम्भे प्रक्षिष्य शा-
न्त्युदकेन स्नापयेत् । रसोनसिद्धार्थकमेषशृ-
ङ्गनिम्बपत्रशिवनिर्माल्यैर्बालकं धूपयेत् । “ओंं
नमो नारायणाय अमुकस्य व्याधिं हन हन
मुञ्च मुञ्च ह्रीं फट् स्वाहा” एवं दिनत्रयं
बलिं दत्त्वा चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः
सम्पद्यते शुभम् ॥ ८८ ॥
२१द्वितीये दिवसे मासे वर्षे वा गृह्णाति
सुनन्दा नाम मातृका । तया गृहीतमात्रेण प्र-
थमं भवति ज्वरः । चक्षुरुन्मीलयति गात्रमुद्वे-
जयति न शेते क्रन्दति स्तन्यं न गृह्णाति आ-
त्कारश्च भवति । बलिं तस्य प्रवक्ष्यामि येन
सम्पद्यते शुभम् । तण्डुलं हस्तपृष्ठैकं दधिगुड-
घृतं च मिश्रितं शरावैकं गन्धताम्बूलं पीतपुष्पं
पीतसप्तध्वजाः सप्तप्रदीपाः दशस्वस्तिकाः म-
त्स्यमांससुरातिलचूर्णानि । पश्चिमस्यां दिशि
चतुष्पथे बलिर्देयः । दिनानि त्रीणि सन्ध्यायां
ततः शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यसि-
275-b
द्धार्थमार्जारलोम उशीरबालघृतैर्धूपं दद्यात् ।
“ओंं नमो नारायणाय अमुकस्य व्याधिं हन
दन मुञ्च मुञ्च ह्रीं फट् स्वाहा” । चतुर्थ-
दिवसे ब्राह्मणं भोजयेत् ततः सम्पद्यते
शुभम् ॥ ८९ ॥
२२तृतीये दिवसे मासे वर्षे वा गृह्णाति पू-
तना नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति
मुष्टिं बध्नाति क्रन्दति ऊर्ध्वं निरीक्षते । बलिं तस्य
प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृ-
त्तिकां गृहीत्वा पुत्तलिकां कृत्वा गन्धपुष्पताम्बू-
लरक्तचन्दनं रक्तपुष्पं रक्तसप्तध्वजाः सप्तप्रदीपाः
सप्तस्वस्तिकाः पक्षिमांससुरा अग्रभक्तं च द-
क्षिणस्यां दिशि अपराह्णे चतुष्पथे बलिर्दातव्यः ।
शिवनिर्माल्यगुग्गुलुसर्षपनिम्बपत्रमेषशृङ्गैर्दिन-
त्रयं धूपयेत् । “ओंं नमो नारायणाय बालस्य
व्याधिं हन हन मुञ्च मुञ्च ह्रासय ह्रासय
स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः स-
म्पद्यते शुभम् ॥ ९० ॥
276-a
२३चतुर्थदिवसे मासे वर्षे वा गृह्णाति मुख-
मुण्डिका नाम मातृका । तया गृहीतमात्रेण प्र-
थमं भवति ज्वरः । ग्रीवां नामयति अक्षिणी
उन्मीलयति स्तन्यं न गृह्णाति रोदिति स्वपिति
मुष्टिं बध्नाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां
कृत्वा उत्पलपुष्पं गन्धताम्बूलं दश ध्वजाः च-
त्वारः प्रदोषाः त्रयोदश स्वस्तिकाः मत्स्यमांस-
सुरा अग्रभक्तं च उत्तरस्यां दिशि अपराह्णे चतु-
ष्पथे बलिं दद्यात् । आद्यमासिको धूपः “ओंं
नमो नारायणाय हन हन मुञ्च मुञ्च स्वाहा”
चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः सम्पद्यते
शुभम् ॥ ९१ ॥
276-b
२४पञ्चमे दिवसे मामे वर्षे वा गृह्णाति क-
टपूतना नाम मातृका तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति
मुष्टिं च बन्धाति बलिं तस्य प्रवक्ष्यामि येन स-
म्पद्यते शुभम् । कुम्भकारचक्रस्य मृत्तिकां गृ-
हीत्वा पुत्तलिकां निर्माय गन्धताम्बूलं शुक्लौदनं
शुक्लपुष्पं पञ्चध्वजाः पञ्चप्रदीपाः पञ्चवटकाः
ऐशान्यां दिशि वलिर्दातव्यः । शान्त्युदकेन
स्नापयेच्छिवनिर्माल्यसर्पनिर्मोकगुग्गुलुनिम्बप-
त्रबालकघृतैर्धूपं दद्यात् । “ओंं नमो नारायणाय
अमुकस्य व्याधिं चूर्णय चूर्णय हन हन स्वाहा ।”
चतुर्थे दिवसे ब्राह्मणं भोजयेत्ततः सम्पद्यते
शुभम् ॥ ९२ ॥
२५षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकु-
निका नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रभेदं च दर्शयति दिवारात्रा-
वुत्थानं भवति ऊर्ध्वं निरीक्षते । बलिं तस्य प्र-
वक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्त-
लिकां कृत्वा शुक्लपुष्पं रक्तपुष्पं पीतपुष्पं गन्ध-
ताम्बूलं दश प्रदीपाः दशध्वजाः दशस्वस्तिकाः
दशमुष्टिकाः दशवटकाः क्षीरजम्बूडिका मत्स्यमां-
ससुरा आग्नेय्यां दिशि निष्क्रान्ते मध्याह्ने बलिं
दापयेत् । शान्त्युदकेन स्नापयेत् । शिवनिर्मा-
ल्यरसोनगुग्गुलुसर्पनिर्मोकनिम्बपत्रघृतैर्धूपं द-
द्यात् । “ओंंनमो नारायणाय चूर्णय चूर्णय
277-a
हन हन स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजये-
त्ततः सम्पद्यते शुभम् ॥ ९३ ॥
२६सप्तमे दिवसे मासे वर्षे वा यदा गृह्णाति
शुष्करेवती नाम मातृका । तया गृहीतमात्रेण
प्रथमं भवति ज्वरः । गात्रमुद्वेजयति मुष्टिं ब-
ध्नाति रोदिति । बलिं तस्य प्रवक्ष्यामि येन स-
म्पद्यते शुभम् । रक्तपुष्पं शुक्लपुष्पं गन्धताम्बूलं
रक्तौदनं कृशरास्त्रयोदश स्वस्तिकाः मत्स्यमांस-
सुरास्त्रयोदशध्वजाः पञ्च प्रदीपाः पश्चिमदिग्भागे
ग्रामनिष्काशे अपराह्णे वृक्षमाश्रित्य बलिं द-
द्यात् । शान्त्युदकेन स्नानं गुग्गुलुमेषशृङ्गीसर्ष-
पोशीरबालकघृतैर्धूपयेत् । “ओंं नमो नारायणाय
दीप्ततेजसे हन हन मुञ्च मुञ्च स्वाहा” चतुर्थ-
दिवसे व्राणह्मं भोजयेत्ततः सम्पद्यते शुभम् ॥ ९४ ॥
277-b
२७अष्टमे दिवसे मासे वार्षे वा यदि गृ-
ह्णाति अर्यका नाम मातृका । तया गृहीतमा-
त्रेण प्रथमं भवति ज्वरः । गृध्रगन्धः पूतिगन्ध-
श्च जायते आहारं च न गृह्णाति उद्वेजयति गा-
त्राणि । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते
शुभम् । रक्तपीतध्वजाः चन्दनं पुष्पं शष्कुल्यः
पर्पटिकाः मत्स्यमांससुराजम्बुडिकाः प्रत्यूषे ब-
लिर्देयः प्रान्तरे । मन्त्रः “ओंंनमो नारायणाय
चतुर्दिड्मोक्षणाय व्याधिं हन हन मुञ्च मुञ्च
ओंं ह्रीं फट् स्वाहा” चतुर्थदिवसे ब्राह्मणं भोज-
येत्ततः सम्पद्यते शुभम् ॥ ९५ ॥
२८नवमे दिवसे मासे वर्षे वा गृह्णाति
भूसूतिका नाम मातृका । तया गृहीतमात्रेण
प्रथमं भवति ज्वरः । नित्यं छर्दिर्भवति गात्रभेदं
दर्शयति मुष्टिं बध्नाति । बलिं तस्य प्रवक्ष्यामि
येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृ-
हीत्वा पुत्तलिकां निर्माय शुक्लवस्त्रेण वेष्टयेच्छु-
क्लपुष्पं गन्धताम्बूलं शुक्लत्रयोदशध्वजाः त्रयो-
दशदीपाः त्रयोदशस्वस्तिकाः त्रयोदशपुत्तलिकाः
त्रयोदशमत्स्यपुत्तलिकाः मत्स्यमांससुराः उत्तर-
दिग्भागे ग्रामनिष्काशे बलिं दद्यात् । शान्त्यु-
दकेन स्नानं गुग्गुलुनिम्बपत्रगोशृङ्गश्वेतसर्षप-
278-a
घृतैर्धूपं दद्यात् । मन्त्रः “ओंंनमो नाराय-
णाय चतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा ।”
चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः सम्पद्यते
शुभम् ॥ ९६ ॥
२९दशमे दिवसे मासे वर्षे वा गृह्णाति नि-
रृता नाम मातृका । तया गृहीतमात्रेण प्रथमं
भवति ज्वरः । गात्रमुद्वेजयति आत्कारं करोति
रोदिति मूत्रं पुरीषं च भवति । बलिं तस्य प्र-
वक्ष्यामि येन सम्पद्यते शुभम् । पारावारमृ-
त्तिकां गृहीत्वा पुत्तलिकां निर्माय गन्धताम्बूलं
रक्तपुष्पं रक्तचन्दनं पञ्चवर्णध्वजाः पञ्चप्रदीपाः
पञ्चस्वस्तिकाः पञ्चपुत्तलिकाः मत्स्यमांससुराः
वायव्यां दिशि बलिं दद्यात् । काकविष्ठागोमां-
सगोशृङ्गरसोनमार्जारलोमनिम्बपत्रघृतैर्धूपयेत् ।
“ओंंनमो नारायणाय चूर्णितहस्ताय मुञ्च मुञ्च
स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः
सुस्थो भवति बालकः ॥ ९७ ॥
278-b
३०एकादशे दिवसे मासे वर्षे वा यदि गृ-
ह्णाति पिलिपिच्छिका नाम मातृका । तया
गृहीतमात्रेण प्रथमं भवति ज्वरः । आहारं न
गृह्णाति ऊर्ध्वदृष्टिर्भवति गात्रभङ्गो भवति ।
बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।
पिष्टकेन पुत्तलिकां कृत्वा रक्तचन्दनरक्तं च
तस्या मुखं दुग्धेन सिञ्चेत् । पीतपुष्पं गन्धता-
म्बूलं सप्तपीतध्वजाः सप्तप्रदीपाः अष्टौ वटकाः
अष्टौ शष्कुलिकाः अष्टौ पूरिकाः मत्स्यमांससु-
राः पूर्वस्यां दिशि बलिर्दातव्यः । शान्त्युदकेन
स्नानं शिवनिर्माल्यगुग्गुलुगोशृङ्गसर्पनिर्मोकघृतै-
र्धूपयेत् । “ओंंनमो नारायणाय मुञ्च मुञ्च
स्वाहा” चतुर्थदिवसे ब्राह्मणं भोजयेत्ततः
सुस्थो भवति बालकः ॥ ९८ ॥
३१द्वादशे दिवसे मासे वर्षे वा यदि गृह्णाति
कामुका नाम मातृका । तया गृहीतमात्रेण प्र-
थमं भवति ज्वरः । विहस्य वादयति करेण
279-a
तर्जयति गृह्णाति क्रामति निःश्वसिति मुहुर्मुहु-
राहारं न करोति । बलिं तस्य प्रवक्ष्यामि येन
सम्पद्यते शुभम् । क्षीरेण पुत्तलिकां कृत्वा गन्धं
ताम्बूलं शुक्लपुष्पं शुक्लसप्तध्वजाः सप्तप्रदीपाः
सप्तपूपिकाः करस्थेन दधिभक्तेन सर्वकर्मबलिं
दद्याच्छान्त्युदकेन स्नापयेत् । शिवनिर्माल्यगु-
ग्गुलुसर्षपघृतैर्धूपयेत् । “ओंं नमो नारायणाय
मुञ्च मुञ्च हन हन स्वाहा” चतुर्थदिवसे
ब्राह्मणं भोजयेत्ततः सुस्थो भवति बालकः ॥ ९९ ॥