279-b
मसूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ ।
अब्दमेकं न भीतिः स्याद्विषात्तस्य न संशयः ॥ ३ ॥
धवलपुनर्नवजटया तण्डुलजलपीतया च पुष्यर्क्षे ।
अपहरति विषधरविषोपद्रवमावत्सरं पुंसाम् ॥ ४ ॥
गृहधूमो हरिद्रे द्वे समूलं तण्डुलीयकम् ।
अपि वासकिनादष्टः पिबेद्दधि घृताप्लुतम् ।
कूलिकामूलनस्येन कालदष्टोऽपि जीवति ॥ ५ ॥
श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः ।
लेपो हन्याद्विपं घोरं नृमूत्रासेचनं तथा ॥ ६ ॥
शिरीषपुष्पस्वरसे भावितं श्वेतसर्षपम् ।
सप्ताहं सर्पदष्टानां नस्यपानाञ्जने हितम् ॥ ७ ॥
द्विपलं नतकुष्टाभ्यां घृतक्षौद्रं चतुःपलम् ।
अपि तक्षकदष्टानां पानमेतत्सुखप्रदम् ॥ ८ ॥
वन्ध्यकर्कोटजं मूलं छागमूत्रेण भावितम् ।
नस्यं काञ्जिकसंयुक्तं विषोपहतचेतसः ॥ ९ ॥