Adhikāra 5

दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तितः ।
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते ॥ १ ॥
यद्वायोरानुलोम्याय यदग्निबलवृद्धये ।
अनुपानौषधद्रव्यं तत्सेव्यं नित्यमर्शसैः ॥ २ ॥
शुष्कार्शसां प्रलेपादिक्रिया तीक्ष्णा विधीयते ।
स्राविणां रक्तमालोक्य क्रिया कार्यास्रपैत्तिकी ॥ ३ ॥
स्नुक्क्षीरं रजनीयुक्तं लेपाद्दुर्नामनाशनम् ।
कोशातकीरजोघर्षान्निपतन्ति गुदोद्भवाः ॥ ४ ॥
अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः ।
करञ्जो बस्तमूलं च लेपनं श्रेष्ठमर्शसाम् ॥ ५ ॥
35-a
अर्शोघ्नी गुदगा वर्तिर्गुडघोषाफलोद्भवा ।
ज्योत्स्निकामूलकल्केन लेपो रक्तार्शसां हितः ॥ ६ ॥
तुम्बीबीजं सौद्भिदं तु काञ्जीपिष्टं गुटीत्रयम् ।
अर्शोहरं गुदस्थं स्याद्दधि माहिषमश्नतः ॥ ७ ॥
अपामार्गाङ्घ्रिजः क्षारो हरितालेन संयुतः ।
लेपनं लिङ्गसम्भूतमर्शो नाशयति ध्रुवम् ॥ ८ ॥
महारोधिप्रदेशस्य पथ्याकोशातकीरजः ।
कफेन लेपतो हन्ति लिङ्गवर्तिमसंशयम् ॥ ९ ॥
वातातीसारवद्भिन्नवर्चांस्यर्शांस्युपाचरेत् ।
उदावर्तविधानेन गाढविट्कानि चासकृत् ॥ १० ॥
विड्विबद्धे हितं तक्रं यमानीबिडसंयुतम् ।
वातश्लेष्मार्शसां तक्रात्परं नास्तीह भेषजम् ॥ ११ ॥
तत्प्रयोज्यं यथादोषं सस्नेहं रूक्षमेव वा ।
35-b
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः ॥ १२ ॥
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ।
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत् ॥ १३ ॥
पित्तश्लेष्मप्रशमनी कच्छूकण्डूरुजापहा ।
गुदजान्नाशयत्याशु योजिता सगुडाभया ॥ १४ ॥
सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम् ।
त्रिवृद्दन्तियुतां वापि भक्षयेदानुलोमिकीम् ॥ १५ ॥
तिलारुष्करसंयोगं भक्षयेदग्निवर्धनम् ।
कुष्ठरोमहरं श्रेष्ठमर्शसां नाशनं परम् ॥ १६ ॥
तिलभल्लातकं पथ्या गुडश्चेति समांशिकम् ।
दुर्नामकासश्वासघ्नं प्लीहपाण्डुज्वरापहम् ॥ १७ ॥
गोमूत्रव्युषितां दद्यात्सगुडां वा हरीतकीम् ।
पञ्चकोलकयुक्तं वा तक्रमस्मै प्रदापयेत् ॥ १८ ॥
मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।
अद्यात्सतैललवणं दुर्नामविनिवृत्तये ॥ १९ ॥
स्विन्नं वार्ताकुफलं घोषायाः क्षारजेन सलिलेन
तद्धृतभृष्टं युक्तं गुडे? नाप्तितो योऽत्ति ॥ २० ॥
पिबति च तक्रं नूनं
तस्याश्वेवातिवृद्धगुदजानि ।
यान्ति विनाशं पुंसां
सहजान्यपि सप्तरात्रेण ॥ २१ ॥
36-a
असितानां तिलानां प्राक् प्रकुञ्चं शीतवार्यनु ।
खादतोऽर्शांसि नश्यन्ति द्विजदार्ढ्याङ्गपुष्टिदम् ॥ २२ ॥
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः ।
भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ २३ ॥
त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् ।
तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने ॥ २४ ॥
तन्मात्रया पिबेन्नित्यमर्शोभ्यो विप्रमुच्यते ।
ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् ॥ २५ ॥
दीपनं चारुचिघ्नं च दन्त्यरिष्टमिदं विदुः ।
पात्रेऽरिष्टादिसन्धानं धातकीलोध्रलेपिते ॥ २६ ॥
सनागरारुष्करवृद्धदारुकं
गुडेन यो मोदकमत्त्युदारकम् ।
36-b
अशेषदुर्नामकरोगदारकं
करोति वृद्धं सहसैव दारकम् ॥ २७ ॥
चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुडः ।
त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च ॥ २८ ॥
पिप्पल्याः कुडवार्धं च चव्यायाः पलमेव च ।
तालीसपत्रस्य पलं पलार्धं केशरस्य च ॥ २९ ॥
द्वे पले पिप्पलीमूलादर्धकर्षं च पत्रकात् ।
सूक्ष्मैलाकर्षमेकं तु कर्षं त्वगमृणालयोः ॥ ३० ॥
गुडात्पलानि तु त्रिंशच्चूर्णमेकत्र कारयेत् ।
अक्षप्रमाणा गुटिका प्राणदेति च सा स्मृता ॥ ३१ ॥
पूर्वं भवेत्तु पश्चात्तु भोजनस्य यथाबलम् ।
मद्यं मांसरसं यूषं क्षीरं तोयं पिबेत्तथा ॥ ३२ ॥
हन्यादर्शांसि सर्वाणि सहजान्यस्रजानि च ।
वातपित्तकफोत्थानि सन्निपातोद्भवानि च ॥ ३३ ॥
पानात्यये मूत्रकृच्छ्रे वातरोगगलग्रहे ।
विषमज्वरे च मन्देऽग्नौ पाण्डुरोगे तथैव च ॥ ३४ ॥
क्रिमिहृद्रोगिणां चैव गुल्मशूलार्तिनां तथा ।
श्वासकासपरीतानामेषा स्यादमृतोपमा ॥ ३५ ॥
शुण्ठ्याः स्थानेऽभया देया विड्ग्रहे पित्तपायुजे ।
प्राणदेयं सितां दत्वा चूर्णमानाच्चतुर्गुणाम् ॥ ३६ ॥
अम्लपित्ताग्निमान्द्यादौ प्रयोज्या गुदजातुरे ।
अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् ॥ ३७ ॥
पलद्वयं त्वनिलजे पित्तजे तु पलत्रयम् ।
37-a
पथ्यापञ्चपलान्येकमजाज्या मरिचस्यच ॥ ३८ ॥
पिप्पलीपिप्पलीमूलचव्यचित्रकनागराः ।
पलाभिवृद्धाः क्रमशो यवक्षारपलद्वयम् ॥ ३९ ॥
भल्लातकपलान्यष्टौ कन्दस्तु द्विगुणो मतः ।
द्विगुणेन गुडेनैषां वटकानक्षसंमितान् ॥ ४० ॥
कृत्वैनं भक्षयेत्प्रातस्तक्रमम्भोऽनु वा पिबेत् ।
मन्दाग्निं दीपयत्येष ग्रहणीपाण्डुरोगनुत् ॥ ४१ ॥
काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ।
भिषग्जितमिति प्रोक्तं श्रेष्ठमर्शोविकारिणाम् ॥ ४२ ॥
विडङ्गसारामलकामयानां
पलं पलं स्यात्त्रिवृतस्त्रयं च ।
गुडस्य षड्द्वादशभागयुक्ता
मासेन त्रिंशद्गुटिका विधेयाः ॥ ४३ ॥
निवारणे यक्षवरेण सृष्टः
समानिभद्रः किल शाख्यभिक्षवे ।
37-b
अयं हि कासक्षयकुष्ठनाशनो
भगन्दरप्लीहजलोदरार्शसाम् ॥ ४४ ॥
यथेष्टचेष्टान्नविहारसेवी
अनेन वृद्धस्तरुणो भवेच्च ॥ ४५ ॥
मरिचमहौषधचित्रक-
शूरणभागा यथोत्तरं द्विगुणाः ।
सर्वसमो गुडभागः
सेव्योऽयं मोदकः प्रसिद्धफलः ॥ ४६ ॥
ज्वलनं ज्वलयति जाठर-
मुन्मूलयति शूलगुल्मगदान् ।
निःशेषयति श्लीपद-
मर्शांस्यपि नाशयत्याशु ॥ ४७ ॥
शूरणषोडशभागा वह्नेरष्टौ महौषधस्यातः ।
अर्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्धेन ॥ ४८ ॥
त्रिफलाकणासमूलातालीशारुष्करक्रिमिघ्नानाम् ।
भागा महौषधसमा दहनांशा तालमूली च ॥ ४९ ॥
भागः शूरणतुल्यो दातव्यो वृद्धदारकस्यापि ।
भृङ्गैले मरिचांशे सर्वाण्येकत्र संचूर्ण्य ॥ ५० ॥
द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामधनैः ।
गुरुवृष्यभोज्यरहितेष्वितरेषूपद्रवं कुर्यात् ॥ ५१ ॥
भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन ।
भीमस्य मारुतेरपि येन तौ महाशनौ जातौ ॥ ५२ ॥
38-a
अग्निबलबुद्धिहेतुर्न केवलं शूरणो महावीर्यः ।
प्रभवति शस्त्रक्षाराग्निभिर्विनाप्यर्शसामेषः ॥ ५३ ॥
श्वयथुश्लीपदजिद्ग्रहणीमपि कफवातसम्भूताम् ।
नाशयति वलीपलितं मेधां कुरुते वृषत्वं च ॥ ५४ ॥
हिक्कां श्वासं कासं सराजयक्ष्मप्रमेहांश्च ।
प्लीहानं चाथोग्रं हन्ति सदैतद्रसायनं पुंसाम् ॥ ५५ ॥
१०चूर्णीकृताः षोडश शूरणस्य
भागास्ततोऽर्धेन च चित्रकस्य ।
महौषधाब्दौ मरिचस्य चैको
गुडेन दुर्नामजयाय पिण्डी ॥ ५६ ॥
पिण्ड्यां गुडो मोदकवत्पिण्डत्वापत्तिकारकः ॥ ५७ ॥
38-b
११व्योषाग्न्यरुष्करविडङ्गतिलाभयानां
चूर्णं गुडेन सहितं तु सदोपयोज्यम् ।
दुर्नामकुष्ठगरशोथशकृद्विबन्धा-
नग्नेर्जयत्यबलतां क्रिमिपाण्डुतां च ॥ ५८ ॥
१२शुण्ठीकणामरिचनागदलत्वगेलं
चूर्णीकृतं क्रमविवर्धितमूर्धमन्त्यात् ।
खादेदिदं समसितं गुदजाग्निमान्द्य-
कासारुचिश्वसनकण्ठहृदामयेषु ॥ ५९ ॥
१३लवणोत्तमवह्निकलिङ्गयवान्
चिरबिल्वमहापिचुमर्दयुतान् ।
पिब सप्तदिनं मथितालुलितान्
यदि मर्दितुमिच्छति पायुरुहान् ॥ ६० ॥
१४त्रिफला पञ्चलवणं कुष्टं कटुकरोहिणी ।
देवदारुविडङ्गानि पिचुमर्दफलानि च ॥ ६१ ॥
बला चातिबला चैव हरिद्रे द्वे सुवर्चला ।
एतत्सम्भृत्य सम्भारं करञ्जत्वग्रसेन च ॥ ६२ ॥
पिष्ट्वा च गुटिकां कृत्वा बदरास्थिसमां बुधः ।
एकैकां तां समुद्धृत्य रोगे रोगे पृथक् पृथक् ॥ ६३ ॥
उष्णेन वारिणा पीता शान्तमग्निं प्रदीपयेत् ।
अर्शांसि हन्ति तक्रेण गुल्ममम्लेन निर्हरेत् ॥ ६४ ॥
जन्तुदष्टं तु तोयेन त्वग्दोषं खदिराम्बुना ।
39-a
मूत्रकृच्छ्रं तु तोयेन हृद्रोगं तैलसंयुता ॥ ६५ ॥
इन्द्रस्वरससंयुक्ता सर्वज्वरविनाशिनी ।
मातुलुङ्गरसेनाथ सद्यः शूलहरी स्मृता ॥ ६६ ॥
कपित्थतिन्दुकानां तु रसेन सह मिश्रिता ।
विषाणि हन्ति सर्वाणि पानाशनप्रयोगतः ॥ ६७ ॥
गोशकृद्रससंयुक्ता हन्यात्कुष्ठानि सर्वशः ।
श्यामा कषायसहिता जलोदरविनाशिनी ॥ ६८ ॥
भक्तच्छन्दं जनयति भुक्तस्योपरि भक्षिता ।
अक्षिरोगेषु सर्वेषु मधुना घृष्यतांजयेत् ॥ ६९ ॥
लेहमात्रेण नारीणां सद्यः प्रदरनाशिनी ।
व्यवहारे तथा द्यूते संग्रामे मृगयादिषु ।
समालभ्य नरो ह्येनां क्षिप्रं विजयमाप्रुयात् ॥ ७० ॥
१५त्रिकत्रयवचाहिङ्गुपाठाक्षारनिशाद्वयम् ।
चव्यतिक्ताकलिङ्गाग्निशताह्वालवणानि च ॥ ७१ ॥
ग्रन्थिबिल्वाजमोदा च गणोऽष्टाविंशतिर्मतः ।
39-b
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ॥ ७२ ॥
ततो विडालपदकं पिबेदुष्णेन वारिणा ।
एरण्डतैलयुक्तं तु सदा लिह्यात्ततो नरः ॥ ७३ ॥
कासं हन्यात्तथा शोथमर्शांसि च भगन्दरम् ।
हृच्छूलं पार्श्वशूलं च वातगुल्मं तथोदरम् ॥ ७४ ॥
हिक्काश्वासप्रमेहांश्च कामलां पाण्डुरोगताम् ।
आमान्वयमुदावर्तमन्त्रवृद्धिं गुदं क्रिमीन् ॥ ७५ ॥
अन्ये च ग्रहणीदोषा ये मया परिकीर्तिताः ।
महाज्वरोपसृष्टानां भूतोपहतचेतसाम् ॥ ७६ ॥
अप्रजानां तु नारीणां प्रजावर्धनमेव च ।
विजयो नाम चूर्णोऽयं कृष्णात्रेयेण पूजितः ॥ ७७ ॥
१६त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकं शटी ।
गवाक्षीमुस्तविश्वाह्वविडङ्गानि हरीतकी ॥ ७८ ॥
पलोन्मितानि चैतानि पलान्यष्टावरुष्करात् ।
षट्पलं वृद्धदारस्य शूरणस्य तु षोडश ॥ ७९ ॥
जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम् ।
पूतं तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणो गुडः ॥ ८० ॥
लेहं पचेत्तु तं तावद्यावद्दर्वीप्रलेपनम् ।
अवतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ॥ ८१ ॥
त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान् ।
एलात्वङ्मरिचं चापि गजाह्वां चापि षट्पलाम् ॥ ८२ ॥
40-a
द्वात्रिंशतं पलान्येवं चूर्णं दत्त्वा निधापयेत् ।
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशनः ॥ ८३ ॥
पञ्च गुल्मान्प्रमेहांश्च पाण्डुरोगं हलीमकम् ।
जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च ॥ ८४ ॥
दीपयेद्ग्रहणीं मन्दां यक्ष्माणं चापकर्षति ।
पीनसे च प्रतिश्याये आढ्यवाते तथैव च ॥ ८५ ॥
अयं सर्वगदेष्वेव कल्याणो लेह उत्तमः ।
दुर्नामारिरयं चाशु दृष्टो वारसहस्रशः ॥ ८६ ॥
भवन्त्येनं प्रयुञ्जानाः शतवर्षं निरामयाः ।
आयुषो दैर्ध्यजननो वलीपलितनाशनः ॥ ८७ ॥
रसायनवरश्चैष मेधाजनन उत्तमः ।
गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः ॥ ८८ ॥
१७तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ।
क्षिप्तश्च निश्चलस्तिष्ठेत् पतितस्तु न शीर्यते ॥ ८९ ॥
40-b
यदा दर्वीप्रलेपः स्याद्यावद्वातन्तुलीभवत् ।
एष पाको गुडादीनां सर्वेषां परिकीर्तितः ॥ ९० ॥
सुखनर्दः सुखस्पर्शो गुडः पाकमुपागतः ।
पीडितो भजते मुद्रां गन्धवर्णरसान्वितः ॥ ९१ ॥
भल्लातकसहस्रे द्वे जलद्रोणे विपाचयेत् ।
पादशेषे रसे तस्मिन्प्रचेद् गुडतुलां भिषक् ॥ ९२ ॥
भल्लातकसहस्रार्धं छित्त्वा तत्रैव दापयेत् ।
सिद्धेऽस्मिंस्त्रिफलाव्योषयमानीमुस्तसैन्धवम् ॥ ९३ ॥
कर्षांशसंमितं दद्यातत्त्वगेलापत्रकेशरम् ।
खादेदग्निवलापेक्षी प्रातरुत्थाय मानवः ॥ ९४ ॥
कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डुताः ।
हन्यात्प्लीहोदरं कासक्रिमिरोगभगन्दरान् ।
गुडभल्लातको ह्येष श्रेष्ठ श्चार्शोविकारिणाम् ॥ ९५ ॥
१८दशमूल्यमृता भार्गी श्वदंष्ट्रा चित्रकं शठी ।
भल्लातकसहस्रं च पलाशं क्वाथयेद् बुधः ॥ ९६ ॥
पादशेषे जलद्रोणे रसे तस्मिन्विपाचयेत् ।
दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत् ॥ ९७ ॥
माक्षिकं पिप्पलीतैलमौरुबूकं च दापयेत् ।
कुडवं कुडवं चात्र त्वगेलामरिचं तथा ॥ ९८ ॥
अर्शःकासमुदावर्तं पाण्डुत्वं शोथमेव च ।
नाशयेद्वह्निसादं च गुडभल्लातकः स्मृतः ॥ ९९ ॥
41-a
१९चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च ।
यमानी पिप्पल्लीमूलमुभे च बिडसैन्धवे ॥ १०० ॥
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत् ।
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे ॥ १०१ ॥
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् ।
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति ॥ १०२ ॥
२०व्योषगर्भं पलाशस्य त्रिगुणे भस्मवारिणि ।
साधितं पिबतः सर्पिः पतन्त्यर्शांस्यसंशयम् ॥ १०३ ॥
२१सक्षारैः पञ्चकोलैस्तु पलिकैस्त्रिगुणोदके ।
समक्षीरं घृतप्रस्थं ज्वरार्शःप्लीहकासनुत् ॥ १०४ ॥
२२पचेद्वारिचतुर्द्रोणे कण्टकार्यमृताशतम् ।
तत्राग्नित्रिफलाव्योषपूतिकत्वक्कलिङ्गकैः ॥ १०५ ॥
41-b
सकाश्मर्यविडङ्गैस्तु सिद्धं दुर्नाममेहनुत् ।
घृतं सिंह्यमृतं नाम बोधितत्त्वेन भाषितम् ॥ १०६ ॥
२३पिप्पली मधुकं बिल्वं शताह्वां मदनं वचाम् ।
कुष्ठं शठीपुष्कराख्यं चित्रकं देवदारु च ॥ १०७ ॥
पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ।
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम् ॥ १०८ ॥
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम् ।
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम् ॥ १०९ ॥
पिच्छास्रावं गुदे शोथं वातवर्चोविनिग्रहम् ।
उत्थानं बहुदोषं च जयेच्चैवानुवासनात् ॥ ११० ॥
रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ।
दुष्टास्रे निगृहीते तु शूलानाहावसृग्गदाः ॥ १११ ॥
लाजैः पेया पीता
चुक्रिकदलकेशरोत्पलैः सिद्धा ।
हन्त्यस्रस्रावं सा
तथा बलापृश्निपर्णीभ्याम् ॥ ११२ ॥
शक्रक्वाथः सविश्वो वा किं वा बिल्वशलाटवः ।
योज्या रक्तार्शसैस्तद्वज्ज्योत्स्निकामूललेपनम् ॥ ११३ ॥
नवनीततिलाभ्यासा-
त्केशरनवनीतशर्कराभ्यासात् ।
दधिसरमथिताभ्यासात्
गुदजाः शाम्यन्ति रक्तवहाः ॥ ११४ ॥
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ।
छागक्षीरं प्रयोक्तव्यं गुदजे शोणितापहम् ॥ ११५ ॥
42-a
२४कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् ।
अष्टभागावशिष्टं तु कषायमवतारयेत् ॥ ११६ ॥
वस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम् ।
भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा ॥ ११७ ॥
रसाञ्जनं चित्रकं च कुटजस्य फलानि च ।
वचामतिविषां बिल्वं प्रत्येकं च पलं पलम् ॥ ११८ ॥
त्रिंशत्पलानि गुडस्य चूर्णीकृत्य निधापयेत् ।
मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा ॥ ११९ ॥
एष लेहः शमयति चार्शो रक्तसमुद्भवम् ।
वातिकं पैत्तिकं चैव श्लैष्मिकं सान्निपातिकम् ॥ १२० ॥
ये च दुर्नामजा रोगास्तान्सर्वान्नाशयत्यपि ।
अम्लपित्तमतीसारं पाण्डुरोगमरोचकम् ।
ग्रहणीमार्दवं कार्श्यं श्वयथुं कामलामपि ॥ १२१ ॥
अनुपानं घृतं दद्यान्मधु तक्रं जलं पयः ।
रोमानीकविनाशाय कौटजो लेह उच्यते ॥ १२२ ॥
42-b
२५कुटजत्वचो विपाच्यं
शतपलमार्द्रं महेन्द्रसलिलेन ।
यावत्स्यादरसं त-
द्द्रव्यं स्वरसस्ततो ग्राह्यः ॥ १२३ ॥
मोचारसः समङ्गा
फलिनी च पलांशिभिस्त्रिभिस्तैश्च ।
वत्सकबीजं तुल्यं
चूर्णीकृतमत्र दातव्यम् ॥ १२४ ॥
पूतोत्क्वथितः सान्द्रः
सरसो दर्वीप्रलेपनो ग्राह्यः ।
मात्राकालोपहिता
रसक्रियैषा जयत्यसृक्स्रावम् ॥ १२५ ॥
छगलीपयसा युक्ता
पेया मण्डेन वा यथाग्निबलम् ।
जीर्णौषधश्च शाली-
न्पयसा क्वाथेन भुञ्जीत ॥ १२६ ॥
रक्तगुदजातिसारं
शूलं सासृग्रुजो निहन्त्याशु ।
बलवच्च रक्तपित्तं
रसक्रियैषा ह्युभयभागम् ॥ १२७ ॥
43-a
२६कुटजफलवल्कलकेशर-
नीलोत्पललोध्रधातकीकल्कैः ।
सिद्धं घृतं विधेयं
शूले रक्तार्शसां भिषजा ॥ १२८ ॥
२७अवाक्पुष्पीबलादार्वीपृश्निपर्णीत्रिकण्टकम्
न्यग्रोधोदुम्बराश्वत्थशङ्खाश्च द्विपलोन्मिताः ॥ १२९ ॥
कषाय एष पेष्यस्तु जीवन्ती कटुरोहिणी ।
पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ १३० ॥
कलिङ्गं शाल्मलीपुष्पं वीराचन्दनमञ्जनम् ।
कट्फलं चित्रकं मुस्तं प्रियङ्ग्वतिविषे स्थिता ॥ १३१ ॥
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका ।
विश्वं मोचरसं पाठा भागाः स्युः कार्षिकाः पृथक् ॥ १३२ ॥
चतुःप्रस्थशृतं प्रस्थं कषायमवतारयेत् ।
त्रिंशत्पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः ॥ १३३ ॥
सुनिषण्णकचाङ्गेर्याः प्रस्थौ द्वौ स्वरसस्य च ।
सर्वैरेतैर्यथोद्दिष्टैर्घृतप्रस्थं विपाचयेत् ॥ १३४ ॥
एतदर्शःस्वतीसारे त्रिदोषे रुधिरस्रुतौ ।
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च ॥ १३५ ॥
उत्थाने चापि बहुशः शोथशूलगुदामये ।
अन्त्रग्रहे गूढवाते मन्दाग्नावरुचावपि ॥ १३६ ॥
प्रयोज्यं विधिवत्सर्पिर्बलवर्णाग्निवर्धनम् ।
विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ १३७ ॥
43-b
२८प्रशस्तेऽहनि नक्षत्रे कृतमङ्गलपूर्वकम् ।
कालमुष्ककमाहृत्य दग्ध्वा भस्म समाहरेत् ॥ १३८ ॥
आढकं त्वेकमादाय जलद्रोणे पचेद्भिषक् ।
चतुर्भागावशिष्टेन वस्त्रपूतेन वारिणा ॥ १३९ ॥
शङ्खचूर्णस्य कुडवं प्रक्षिष्य विपचेत्पुनः ।
शनैः शनैर्मृद्वग्नौ तु यावत्सान्द्रतनुर्भवेत् ॥ १४० ॥
सर्जिकायवशूकाभ्यां शुण्ठी मरिचपिप्पली ।
वचा चातिविषा चैव हिङ्गुचित्रकयोस्तथा ॥ १४१ ॥
एषां चूर्णानि निक्षिप्य पृथक्त्वेनाष्टमाषकम् ।
दर्व्या संघट्टितं चापि स्थापयेदायसे घटे ॥ १४२ ॥
एष वह्निसमः क्षारः कीर्तितः काश्यपादिभिः ।
तोये कालकमुष्ककस्य विपचे-
द्भस्माढकं षङ्गुणे
पात्रे लोहमये दृढे विपुलधी-
र्दर्व्याशनैर्घट्टयन् ॥
दग्ध्वाग्नौ बहुशङ्खनाभिशकला-
न्पूतावशेषे क्षिपेत्
यद्येरण्डजनालमेष दहति
क्षारो वरो वाक्शतात् ॥ १४३ ॥
प्रायस्त्रिभागशिष्टेऽस्मिन्नच्छपैच्छिल्यरक्तता ।
संजायते तदा स्राव्यं क्षाराम्भो ग्राह्यमिष्यते ॥ १४४ ॥
तुर्येणाष्टमकेन षोडशभवे-
नांशेन संव्यूहितो
मध्यः श्रेष्ठ इति क्रमेण विहितः
क्षारोदकाच्छङ्खकः ॥ १४५ ॥
44-a
नातिसान्द्रो नातितनुः क्षारपाक उदाहृतः ।
दुर्नामकादौ निर्दिष्टः क्षारोऽयं प्रतिसारणः ॥ १४६ ॥
पानीयो यस्तु गुल्मादौ तं वारानेकविंशतिम् ।
स्रावयेत्षड्गुणे तोये केचिदाहुश्चतुर्गुणे ॥ १४७ ॥
२९भाषितं रजनीचूर्णैः स्नुहीक्षीरे पुनः पुनः ।
बन्धनात्सुदृढं सूत्रं भिनत्त्यर्शो भगन्दरम् ॥ १४८ ॥
प्राग्दक्षिणं ततो वामं पृष्ठजं चाग्रजं क्रमात् ।
पञ्चतिक्तेन संस्निह्य दहेत्क्षारेण वह्निना ॥ १४९ ॥
वातजं श्लेष्मजं चार्शः क्षारेणास्रजपित्तजे ।
महान्ति तनुमूलानि छित्त्वैव बलिनो दहेत् ॥ १५० ॥
चर्मकीलं तथा छित्त्वा दहेदन्यतरेण वा ।
पक्वजम्बूपमो वर्णः क्षारदग्धः प्रशस्यते ॥ १५१ ॥
44-b
गोजीशेफालिकापत्रैरर्शः संलिख्य लेपयेत् ।
क्षारेण वाक्शतं तिष्ठेद्यन्त्रद्वारं पिधाय च ॥ १५२ ॥
तं चापनीय वीक्षेत पक्वजम्बूफलोपमम् ।
यदि च स्यात्ततो भद्रं नो चेल्लिम्पेत्तथा पुनः ॥ १५३ ॥
तत्तुषाम्बुप्लुतं साज्यं यष्टीकल्केन लेपयेत् ।
न निम्नं तालवर्णाभं वह्निदग्धे स्थितासृजम् ॥ १५४ ॥
निर्वाप्य मधुसर्पिर्भ्यां वह्निसंजातवेदनाम् ।
सम्यग्दग्धे तुगाक्षीरी प्लक्षचन्दनगैरिकैः ॥ १५५ ॥
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ।
मुहूर्तमुपवेश्याऽसौ तोयपूर्णेऽथ भाजने ॥ १५६ ॥
क्षारमुष्णाम्बुना पाय्यं विबन्धे मूत्रवर्चसोः ।
दाहे बस्त्यादिजे लेपः शतधौतेन सर्पिषा ॥ १५७ ॥
नवान्नं माषतक्रादि सेव्यं पाकाय जानता ।
पिबेद्गुणविशुद्ध्यर्थं वराक्वाथं सगुग्गुलुम् ॥ १५८ ॥
जीर्णे शाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम् ।
रूढसर्वव्रणं वैद्यः क्षारं दत्त्वानुवासयेत् ॥ १५९ ॥
45-a
३०पिप्पल्याद्येन तैलेन सेवेद्दीपनपाचनम् ।
त्रिवृच्चित्रकनिर्गुण्डी स्नुहीमुण्डतिकाज्जटाः ॥ १६० ॥
प्रत्येकशोऽष्टपलिकां जलद्रोणे विपाचयेत् ।
पलत्रयं विडङ्गस्य व्योषात्कर्षत्रयं पृथक् ॥ १६१ ॥
त्रिफलायाः पञ्च पलं शिलाजतु पलं न्यसेत् ।
दिव्यौषधिहतस्यापि वैकङ्कतहतस्य वा ॥ १६२ ॥
पलद्वादशकं देयं रुक्मलौहस्य चूर्णितम् ।
पलैश्चतुर्विंशतिभिर्मधुशर्करयोर्युतम् ॥ १६३ ॥
घनीभूते सुशीते च दापयेदवतारिते ।
एतदग्निमुखं नाम दुर्नामान्तकरं परम् ॥ १६४ ॥
सममग्निं करोत्याशु कालाग्निसमतेजसम् ।
पर्वता अपि जीर्यन्ति प्राशनादस्य देहिनः ॥ १६५ ॥
गुरुवृष्यान्नपानानि पयोमांसरसो हितः ।
दुर्नामपाण्डुश्वयथुकुष्ठप्लीहोदरापहम् ॥ १६६ ॥
अकालपलितं चैतदामवातगुदामयम् ।
न स रोगोऽस्ति यं चापि न निहन्यादिदं क्षणात् ॥ १६७ ॥
करीरकाञ्जिकादीनि ककारादीनि वर्जयेत् ।
स्रवत्यतोऽन्यथा लौहं देहात्किट्टं च दुर्जरम् ॥ १६८ ॥
45-b
३१चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकामृता
हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः ॥ १६९ ॥
एषां चतुष्पलान्भागाञ्जलद्रोणे विपाचयेत् ।
भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् ॥ १७० ॥
तेन पादावशेषेण लौहपात्रे पचेद्भिषक् ।
तुलार्धं तीक्ष्णलौहस्य घृतस्य कुडवद्वयम् ॥ १७१ ॥
त्र्यूषणं त्रिफलावह्निसैन्धवं बिडमौद्भिदम् ।
सौवर्चलविडङ्गानि पलिकांशानि कल्पयेत् ॥ १७२ ॥
कुडवं वृद्धदारस्य तालमूल्यास्तथैव च ।
शूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत् ॥ १७३ ॥
सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् ।
प्रातर्भोजनकाले च ततः खादेद्यथाबलम् ॥ १७४ ॥
अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् ।
क्रिमिगुल्माश्मरीमेहाञ्शूलं चाशु व्यपोहति ॥ १७५ ॥
करोति शुक्रोपचयं वलीपलितनाशनम् ।
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ॥ १७६ ॥
रसस्तु पादिकस्तुल्या विडङ्गमरिचाभ्रकाः ।
गङ्गापालङ्कजरसे खल्वयित्वा पुनः पुनः ॥ १७७ ॥
रक्तिमात्रा गुदार्शोघ्नी वह्नेरत्यर्थदीपनी ।
वेगावरोधस्त्रीपृष्ठयानमुत्कटकासनम् ।
यथास्वं दोषलं चान्नमर्शसः परिवर्जयेत् ॥ १७८ ॥