303-b
स्तम्भनीयक्षतक्षीणविषमद्यविकारिणः ।
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः ॥ ५ ॥
पीतदुग्धदधिस्नेहमधून्कृतविरेचनान् ।
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् ॥ ६ ॥
क्षुत्तृष्णाकामलापाण्डूमेहिनः पित्तपीडितान् ।
गर्भिणीं पुष्पितां सूतां मृदुवात्ययिके गदे ॥ ७ ॥
स्वेदो हितस्त्वनाग्नेयो वाते मेदःकफावृते ।
निवातगृहमायासो गुरुप्रावरणं भयम् ॥ ८ ॥
उपनाहाहवक्रोधभूरिपानक्षुधातपाः ।
स्वेदयन्ति दशैतानि नरमग्निगुणादृते ॥ ९ ॥
शीतशूलव्युपरमैस्तम्भगौरवनिग्रहे ।
संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता ॥ १० ॥