Adhikāra 71

वांतोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते ।
यथोचितात्पादहीनं भोजयित्वानुवासयेत् ॥ १ ॥
न चाभुक्तवते स्नेहः प्रणिधेयः कथञ्चन ।
308-b
सूक्ष्मत्वाच्छून्यकोष्ठस्य क्षिप्रमूर्ध्वमथोत्पतेत् ॥ २ ॥
षट्पली च भवेच्छ्रेष्ठा मध्यमा विपली भवेत् ।
कनीयसी सार्धपला त्रिधा मात्रानुवासने ॥ ३ ॥
प्राग्देयमाद्ये द्विपलं पलार्ध-
वृद्धिर्द्वितीये पलमक्षवृद्धिः ।
कर्षद्वयं वा वसुमाषवृद्धि-
र्बस्तौ तृतीये क्रम एष उक्तः ॥ ४ ॥
माषमात्रं पले स्नेहे सिन्धुजन्मशताह्वयोः ।
स तु सैन्धवचूर्णेन शताह्वेन च संयुतः ॥ ५ ॥
भवेत्सुखोष्णश्च तथा निरेति सहसा मुखम् ।
विरिक्तश्चानुवास्यश्चेत्सप्तरात्रात्परं तदा ॥ ६ ॥
सुवर्णरूप्यत्रपुताम्ररीति-
कांस्यायसास्थिद्रुमवेणुदन्तैः ।
नलैर्विषाणैर्मणिभिश्च तैस्तैः
कार्याणि नेत्राणि सुकर्णिकानि ॥ ७ ॥
पड्द्वादशाष्टाङ्गुलसम्मितानि
षड्विंशतिद्वादशवर्षजानाम् ।
स्युर्मुद्गकर्कन्धुसतीलवाहि
छिद्राणि वर्त्या पिहितानि चापि ॥ ८ ॥
यथा यवोऽङ्गुष्ठकनिष्ठिकाभ्यां
मूलाग्रयोः स्युः परिणाहवन्ति ।
309-a
ऋजूनि गोपुच्छसमाकृतीनि
श्लक्ष्णानि च स्युर्गुडिकामुखानि ॥ ९ ॥
स्यात्कर्णिकैकाग्रचतुर्थभागे
मूलाश्रिते बस्तिनिबन्धने द्वे ।
जारद्गवो माहिषहारिणौ वा
स्याच्छौकरो वस्तिरजस्य वापि ॥ १० ॥
दृढस्तनुर्नष्टशिरोविबन्धः
कषायरक्तः सुमृदुः सुशुद्धः ।
नृणां वयो वीक्ष्य यथानुरूपं
नेत्रेषु योज्यस्तु सुवद्धसूत्रः ॥ ११ ॥
निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरे परम् ।
प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्पट् प्रसृतास्ततः ॥ १२ ॥
प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु ।
आसप्ततेरिदं मानं दशैव प्रसृताः परम् ॥ १३ ॥
यथायथं निरूहस्य पादो मात्रानुवासने ।
कृतचंक्रमणं मुक्तविण्मूत्रं शयने सुखे ॥ १४ ॥
नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः ।
सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम् ।
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् ॥ १५ ॥
309-b
तथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे ।
उच्छ्वास्य बस्तेर्वदनं बद्ध्वा हस्तमकम्पयन् ॥ १६ ॥
पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम् ।
नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत् ।
सावशेषं प्रकुर्वीत वायुः शेषे हि तिष्ठति ॥ १७ ॥
निरूइदानेऽपि विधिरयमेव समीरितः ।
ततः प्रणिहिते स्नेहे उत्तानो वाक्शछतं भवेत् ।
प्रसारितैः सर्वगात्रैस्तथा वीर्यं प्रसर्पति ॥ १८ ॥
आकुञ्चयेच्छनैस्त्रिस्त्रिः सक्थिबाहू ततः परम् ।
ताडयेत्तलयोरेनं त्रींस्त्रीन्वाराञ्छनैः शनैः ॥ १९ ॥
स्फिचोश्चैनं ततः श्रोणिं शय्यां त्रिरुत्क्षिपेच्छनैः
एवं प्रणिहिते वस्तौ मन्दायासोऽथ मन्दवाक् ॥ २० ॥
आस्तीर्णे शयने काममासीताचारिके रतः ।
योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्न कार्यकृत् ॥ २१ ॥
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य वै ।
विना पीडां त्रियामस्थः स सम्यगनुवासितः ॥ २२ ॥
क्वाथार्धमात्रया प्रातर्धान्यशुण्ठीजलं पिबेत् ।
पित्तोत्तरे कदुष्णाम्भस्तावन्मात्रं पिबेदनु ॥ २३ ॥
310-a
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ।
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति ॥ २४ ॥
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ।
यस्य नोपद्रवं कुर्यात्स्नेहबस्तिरनिःसृतः ॥ २५ ॥
सर्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः संविजानता ।
अनायन्तमहोरात्रात्स्नेहं सोपद्रवं हरेत् ॥ २६ ॥
स्नेहबस्तावनायाते नान्यः सेको विधीयते ।
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ॥ २७ ॥
तदाङ्गसदनाध्वानशूलाः श्वासश्च जायते ।
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् ॥ २८ ॥
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ।
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः ॥ २९ ॥
स्नेहवीर्यं तथादत्ते स्नेहो नानुविसर्पति ।
अशुद्धमपि वातेन केवलेनाभिपीडितम् ॥ ३० ॥
310-b
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ।
अनुवासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम् ॥ ३१ ॥
यथा वा स्नेहपक्तिः स्यादतोऽप्युल्वणमारुतान् ।
व्यायामनित्यान्दीप्ताग्नीन्रुक्षांश्च प्रतिवासरम् ॥ ३२ ॥
इति स्नेहैस्त्रिचतुरैः स्निग्धे स्रोतोविशुद्धये ।
निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः ॥ ३३ ॥
विष्टब्धानिलविण्मूत्रः स्नेहो हीनेऽनुवासने ।
दाहज्वरपिपासार्तिकरश्चात्यनुवासने ॥ ३४ ॥
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत् ।
स्नेहात्पित्तकफोत्क्लेदो निरूहात्पवनाद्भयम् ॥ ३५ ॥
अनास्थाप्या येऽभिधेया नानुवास्याश्च ते मताः ।
विशेषतस्त्वमी पाण्डूकामलामेहपीनसाः ॥ ३६ ॥
निरम्लप्लीहविड्भेदी गुरुकोष्ठकफोदराः ।
अभिष्यन्दभृशस्थूलक्रिमिकोष्ठाढ्यमारुताः ॥ ३७ ॥
पीते विषे गरेऽपच्यां श्लीपदी गलगण्डवान् ।
अनास्थाप्यस्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः ॥ ३८ ॥
आमातिसारी वमिमान्संशुद्धो दत्तनावनः ।
श्वासकासप्रसेकार्शोहिक्काध्मानाल्पवह्नयः ॥ ३९ ॥
शूलपायुः कृताहारो बद्धच्छिद्रदकोदरी ।
कुष्ठी च मधुमेही च मासान्सप्त च गर्भिणी ॥ ४० ॥
न चैकान्ते न निर्दिष्टेऽप्यत्राभिनिविशेद्बुधः ।
भवेत्कदाचित्कार्यापि विरुद्धापि मता क्रिया ॥ ४१ ॥
311-a
छर्दिहृद्रोगगुल्मार्ते वमनं सुचिकित्सिते ।
अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च ॥ ४२ ॥