310-a
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ।
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति ॥ २४ ॥
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ।
यस्य नोपद्रवं कुर्यात्स्नेहबस्तिरनिःसृतः ॥ २५ ॥
सर्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः संविजानता ।
अनायन्तमहोरात्रात्स्नेहं सोपद्रवं हरेत् ॥ २६ ॥
स्नेहबस्तावनायाते नान्यः सेको विधीयते ।
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ॥ २७ ॥
तदाङ्गसदनाध्वानशूलाः श्वासश्च जायते ।
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम् ॥ २८ ॥
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ।
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः ॥ २९ ॥
स्नेहवीर्यं तथादत्ते स्नेहो नानुविसर्पति ।
अशुद्धमपि वातेन केवलेनाभिपीडितम् ॥ ३० ॥