315-a
न नस्यमूनसप्ताब्दे नातीताशीतिबत्सरे ।
न चोनद्वादशे धूमः कवलो नोनपञ्चमे ॥ २६ ॥
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ ।
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत् ॥ २७ ॥
इति नस्याधिकारः । समाप्तश्च पञ्चकर्माधिकारः ।

Adhikāra 74

प्रायोगिकः स्नैहिकश्च धूमो वैरेचनस्तथा ।
कासहरो वामनश्च धूमः पञ्चविधो मतः ॥ १ ॥
ऋजुत्रिकोपफलितं कोलास्थ्यग्रप्रमाणितम् ।
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते ॥ २ ॥
सार्धस्त्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु ।
नेत्रे कासहरे त्र्यंशहीनः शेषे दशाङ्गुलः ॥ ६ ॥
औषधैर्वर्तिकां कृत्वा शरगर्भां विशोषिताम् ।
विगर्भामग्निसंप्लुष्टां कृत्वा धूमं पिबेन्नरः ॥ ४ ॥