Adhikāra 6
46-a१समस्य रक्षणं कार्यं विषमे वातनिग्रहः ।
तीक्ष्णे पित्तप्रतीकारो मन्दे श्लेष्मविशोधनम् ॥ १ ॥
२त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणघृतानामष्टमो हिङ्गुभागः ।
प्रथमकुडवभुक्तं सर्पिषा चूर्णमेत-
ज्जनयति जठराग्निं वातरोगांश्च हन्यात् ॥ २ ॥
३समयवशूकमहौषध-
चूर्णं लीढं घृतेन गोसर्गे ।
46-b
कुरुते क्षुधां सुखोदक-
पीतं सद्यो महौषधं वैकम् ॥ ३ ॥
अन्नमण्डं पिबेदुष्णं हिङ्गुसौवर्चलान्वितम् ।
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥ ४ ॥
क्षुद्बोधनो बस्तिविशोधनश्च
प्राणप्रदः शोणितवर्धनश्च ।
ज्वरापहारी कफपित्तहन्ता
वायुं जयेदष्टगुणो हि मण्डः ॥ ५ ॥
४नारीक्षीरेण संयुक्तां पिबेदौदुम्बरीं त्वचम् ।
आभ्यां वा पायसं सिद्धं पिबेदत्यग्निशान्तये ॥ ६ ॥
यत्किञ्चिद्गुरु मेध्यं च श्लेष्मकारि च भेषजम् ।
सर्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा ॥ ७ ॥
मुहुर्मुहुरजीर्णेऽपि भोज्यमस्योपकल्पयेत् ।
निरिन्धनोन्तरं लब्ध्वा यथैनं न निपातयेत् ॥ ८ ॥
विश्वाभयागुडूचीनां कषायेण षडूषणम् ।
पिबेच्छ्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम् ॥ ९ ॥
पञ्चकोलं समरिचं षडूषणमुदाहृतम् ।
47-a
५हरीतकी भक्ष्यमाणा नागरेण गुडेन वा ।
सैन्धवोपहिता वापि सातत्येनाग्निदीपनी ॥ १० ॥
सिन्धूत्थपथ्यमगधोद्भववह्निचूर्ण-
मुष्णाम्बुना पिबति यः खलु नष्टवह्निः ।
तस्यामिषेण सघृतेन वरं नवान्नं
भस्मीभवत्यशितमात्रमिह क्षणेन ॥ ११ ॥
सिन्धूत्थहिङ्गुत्रिफलायमानी-
व्योषैर्गुडांशैर्गुडकान्प्रकुर्यात् ।
तैर्भक्षितैस्तृप्तिमवाप्नुवन्ना
भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥ १२ ॥
विडङ्गभल्लातकचित्रकामृताः
सनागरास्तुल्यगुडेन सर्पिषा ।
निहन्ति ये मन्दहुताशना नरा
भवन्ति ते वाडवतुल्यवह्नयः ॥ १३ ॥
गुडेन शुण्ठीमथवोपकुल्यां ।
पथ्यां तृतीयामथ दाडिमं वा ।
आमेष्वजीर्णेषु गुदामयेषु
वर्चोविबन्धेषु च नित्यमद्यात् ॥ १४ ॥
भोजनाग्रे हितं हृद्यं दीपनं लवणार्द्रकम् ।
47-b
६कपित्थबिल्वचाङ्गेरीमरिचाजाजिचित्रकैः ॥ १५ ॥
कफवातहरो ग्राही खण्डो दीपनपाचनः ।
पिप्पलीशृङ्गवेरं च देवदारु सचित्रकम् ॥ १६ ॥
चविकां बिल्वपेशीं चाजमोदां च हरीतकीम् ।
महौषधं यमानीं च धान्यकं मरिचं तथा ॥ १७ ॥
जीरकं चापि हिङ्गुं च काञ्जिकं साधयेद्भिषक् ।
एष शार्दूलको नाम काञ्जिकोऽग्निबलप्रदः ॥ १८ ॥
सिद्धार्थतैलसंभृष्टो दश रोगान् व्यपोहति ।
कासं श्वासमतीसारं पाण्डुरोगं सकामलम् ॥ १९ ॥
आमं च गुल्मशूलं च वातगुल्मं सवेदनम् ।
अर्शांसि श्वयथुं चैव भुक्ते पीते च सात्म्यतः ॥ २० ॥
क्षीरपाकविधानेन काञ्जिकस्यापि साधनम् ।
७हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत् ॥ २१ ॥
पिप्पली त्रिगुणा चैव शृङ्गवेरं चतुर्गुणम् ।
यमानिका पञ्चगुणा षङ्गुणा च हरीतकी ॥ २२ ॥
चित्रकं सप्तगुणितं कुष्टं चाष्टगुणं भवेत् ।
एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नया ॥ २३ ॥
पिबेद्दध्ना मस्तुना वा सुरया कोष्णवारिणा ।
सोदावर्तमजीर्णं च प्लीहानमुदरं तथा ॥ २४ ॥
अङ्गानि यस्य शीर्यन्ते विषं वा येन भक्षितम् ।
अर्शोहरं दीपनं च श्लेष्मघ्नं गुल्मनाशनम् ॥ २५ ॥
कासं श्वासं निहन्त्याशु तथैव यक्ष्मनाशनम् ।
चूर्णमग्निमुखं नाम न क्वचित्प्रतिहन्यते ॥ २६ ॥
८रसोऽर्धभागिकस्तुल्याद्विडङ्गमरिचाभ्रकाः ।
भक्तोदकेन संमर्द्य कुर्याद्गुञ्जासमां गुटीम् ॥ २७ ॥
भक्तोदकानुपानैका सेव्या वह्निप्रदीपनी ।
वार्यन्नभोजनं चात्र प्रयोगे सात्म्यमिष्यते ॥ २८ ॥
९द्वौ क्षारौ चित्रकं पाठा करञ्जलवणानि च ।
सूक्ष्मैलापत्रकं भार्गी क्रिमिघ्नं हिङ्गुपौष्करम् ॥ २९ ॥
शठी दार्वी त्रिवृन्मुस्तं वचा सेन्द्रयवा तथा ।
धात्रीजीरकवृक्षाम्लं श्रेयसी चोपकुञ्चिका ॥ ३० ॥
अम्लवेतसमम्लिका यमानी सुरदारु च ।
अभयातिविषाश्यामाहवुषारग्वधं समम् ॥ ३१ ॥
तिलमुष्करशिग्रूणां कोकिलाक्षपलाशयोः ।
क्षाराणि लोहकिट्टं च तप्तं गोमूत्रसेचितम् ॥ ३२ ॥
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ।
मातुलुङ्गरसेनैव भावयेच्च दिनत्रयम् ॥ ३३ ॥
दिनत्रयं च शुक्तेन चार्द्रकस्वरसेन च ।
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभम् ॥ ३४ ॥
उपयुक्तविधानेन नाशयत्यचिराद्गदान् ।
अजीर्णकमथो गुल्मान्प्लीहानं गुदजानि च ॥ ३५ ॥
उदराण्यन्त्रवृद्धिं चाप्यष्ठीलां वातशोणितम् ।
प्रणुदत्युल्बणान्रोगान्नष्टं वह्निं च दीपयेत् ॥ ३६ ॥
समस्तव्यञ्जनोपेतं भक्तं दत्वा सुभाजने ।
दापयेदस्य चूर्णस्य विडालपदमात्रकम् ॥ ३७ ॥
गोदोहमात्रात्तत्सर्वं द्रवीभवति सोष्मकम् ।
१०पिप्पली पिप्पलीमूलं धन्याकं कृष्णजीरकम् ॥ ३८ ॥
सैन्धवं च बिडं चैव पत्रं तालीसकेशरम् ।
एषां द्विपलिकान्भागान्पञ्च सौवर्चलस्य च ॥ ३९ ॥
मरिचाजाजिशुण्ठीनामेकैकस्य पलं पलम् ।
त्वगेले चार्धभागे च सामुद्रात्कुडवद्वयम् ॥ ४० ॥
दाडिमात्कुडवं चैव द्वे पले चाम्लवेतसात् ।
एतच्चूर्णीकृतं श्लक्ष्णं गन्धाढ्यममृतोपमम् ॥ ४१ ॥
लवणं भास्करं नाम भास्करेण विनिर्मितम् ।
जगतस्तु हितार्थाय वातश्लेष्मामयापहम् ॥ ४२ ॥
वातगुल्मं निहन्त्येतद्वातशूलानि यानि च ।
तक्रमस्तु सुरासीधुशुक्तकाञ्जिकयोजितम् ॥ ४३ ॥
जाङ्गलानां तु मांसेन रसेषु विविधेषु च ।
मन्दाग्नेरश्नतः शक्तो भवेदाश्वेव पावकः ॥ ४४ ॥
अर्शांसि ग्रहणीदोषकुष्ठामयभगन्दरान् ।
हृद्रोगमामदोषांश्च विविधानुदरस्थितान् ॥ ४५ ॥
प्लीहानमश्मरीं चैव श्वासकासोदरक्रिमीन् ।
विशेषतः शर्करादीन्रोगान्नानाविधांस्तथा ॥ ४६ ॥
पाण्डुरोगांश्च विविधान्नाशयत्यशनिर्यथा ।
49-a
११पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ ४७ ॥
हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च ।
द्वौ क्षारौ हपुषा चैव दद्यादर्धपलोन्मितान् ॥ ४८ ॥
दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च ।
आर्द्रकस्वरसप्रस्थं घृतप्रस्थं विपाचयेत् ॥ ४९ ॥
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ।
अर्शसां नाशनं श्रेष्ठं तथा गुल्मोदरापहम् ॥ ५० ॥
ग्रन्थ्यर्बुदापचीकासकफमेदोऽनिलानपि ।
नाशयेद्ग्रहणीदोषं श्वयथुं सभगन्दरम् ॥ ५१ ॥
ये च बस्तिगता रोगा ये च कुक्षिसमाश्रिताः ।
सर्वांस्तान्नाशयत्याशु सूर्यस्तम इवोदितः ॥ ५२ ॥
१२पलिकैः पञ्चकोलैस्तु घृतं मस्तु चतुर्गुणम् ।
सक्षारैः सिद्धमल्पाग्निं कफगुल्मं विनाशयेत् ॥ ५३ ॥
१३भल्लातकसहस्रार्धं जलद्रोणे विपाचयेत् ।
अष्टभागावशेषं च कषायमवतारयेत् ॥ ५४ ॥
घृतप्रस्थं समादाय कल्पानीमानि दापयेत् ।
त्र्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ ५५ ॥
हिङ्गु चव्याजमोदा च पञ्चैव लवणानि च ।
द्वौ क्षारौ हपुषा चैव दद्यादर्धपलोन्मितान् ॥ ५६ ॥
दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च ।
आर्द्रकस्वरसं चैव सौभाञ्जनरसं तथा ॥ ५७ ॥
तत्सर्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ।
एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते ॥ ५८ ॥
अर्शसां नाशनं श्रेष्ठं मूढवातानुलोमनम् ।
कफवातोद्भवे गुल्मे श्लीपदे च दकोदरे ॥ ५९ ॥
शोथं पाण्ड्वामयं कासं ग्रहणीं श्वासमेव च ।
एतान्विनाशयत्याशु सूर्यस्तम इवोदितः ॥ ६० ॥
१४द्वे पञ्चमूले त्रिफलामर्कमूलं शतावरीम् ।
दन्तीं चित्रकमास्फीतां रास्नां पाठां सुधां शठीम् ॥ ६१ ॥
पृथग्दशपलान्भागान्दग्ध्वा भस्म समावपेत् ।
त्रिःसप्तकृत्वस्तद्भस्म जलद्रोणेन गालयेत् ॥ ६२ ॥
तद्रसं साधयेदग्नौ चतुर्भागावशेषितम् ।
ततो गुडतुलां दत्त्वा साधयेन्मृदुनाग्निना ॥ ६३ ॥
सिद्धं गुडं तु विज्ञाय चूर्णानीमानि दापयेत् ।
वृश्चिकालीं द्विकाकोल्यौ यवक्षारं समावपेत् ॥ ६४ ॥
एते पञ्चकला भागाः पृथक् पञ्चपलानि च ।
हरीतकीं त्रिकटुकं सर्जिकां चित्रकां वचाम् ॥ ६५ ॥
हिङ्ग्वम्लवेतसाभ्यां च द्वे पले तत्र दापयेत् ।
अक्षप्रमाणां गुटिकां कृत्वा खादेद्यथाबलम् ॥ ६६ ॥
अजीर्णं जरयत्येष जीर्णे सन्दीपयत्यपि ।
भुक्तं भुक्तं च जीर्येत पाण्डुत्वमपकर्षति ॥ ६७ ॥
प्लीहार्शःश्वयथुं चैव श्लेष्मकासमरोचकम् ।
मन्दाग्निविषमाग्नीनां कफे कण्ठोरसि स्थिते ॥ ६८ ॥
कुष्ठानि च प्रमेहांश्च गुल्मं चाशु नियच्छति ।
ख्यातः क्षारगुडो ह्येष रोगयुक्ते प्रयोजयेत् ॥ ६९ ॥
१५नासारोगे विधातव्याया चित्रकहरीतकी ।
विना धात्रीरसं सोऽस्मिन्प्रोक्तश्चित्रगुडोऽग्निदः ।
वचा लवणतोयेन वान्तिरामे प्रशस्यते ॥ ७० ॥
अन्नं विदग्धं हि नरस्य शीघ्रं
शीताम्बुना वै परिपाकमेति ।
50-b
तद्ध्यस्य शैत्येन निहन्ति पित्त-
माक्लेदिभावाच्च नयत्यधस्तात् ॥ ७१ ॥
विदह्यते यस्य तु भुक्तमात्रं
दह्येत हृत्कोष्ठगलं च यस्य ।
द्राक्षासितामाक्षिकसंप्रयुक्तां
लीढ्वाभयां वै स सुखं लभेत ॥ ७२ ॥
हरीतकी धान्यतुषोदसिद्धा ।
सपिप्पली सैन्धवहिङ्गुयुक्ता ।
सोङ्गारधूमं भृशमप्यजीर्णं
विजित्य सद्यो जनयेत्क्षुधां च ॥ ७३ ॥
विष्टब्धे स्वेदनं पथ्यं पेयं च लवणोदकम् ।
रसशेषे दिवास्वप्नो लङ्घनं वातवर्जनम् ॥ ७४ ॥
व्यायामप्रमदाध्ववाहनरत-
क्लान्तानतीसारिणः
शूलश्वासवतस्तृषापरिगता
हिक्कामरुत्पीडितान् ।
क्षीणान्क्षीणकफान् शिशून्मदहता-
न्वृद्धान्रसाजीर्णिनो
रात्रौ जागरितांस्तथानिरशना-
न्कामं दिवा स्वापयेत् ॥ ७५ ॥
१६आलिप्य जठरं प्राज्ञो हिङ्गुत्र्यूषणसैन्धवैः ।
दिवास्वप्नं प्रकुर्वीत सर्वाजीर्णप्रणाशनम् ॥ ७६ ॥
धान्यनागरसिद्धं तु तोयं दद्याद्विचक्षणः ।
आमाजीर्णप्रशमनं दीपनं बस्तिशोधनम् ॥ ७७ ॥
पथ्यापिप्पलिसंयुक्तं चूर्णं सौवर्चलं पिबेत् ।
मस्तुनोष्णोदकेनाथ बुद्ध्वा दोषगतिं भिषक् ॥ ७८ ॥
चतुर्विधमजीर्णं च मन्दानलमथारुचिम् ।
आध्मानं वातगुल्मं च शूलं चाशु नियच्छति ॥ ७९ ॥
भवेदजीर्णं प्रति यस्य शङ्का
स्निग्धस्य जन्तोर्बलिनोऽन्नकाले ।
पूर्वं सशुण्ठीमभयामशङ्कः
संप्राश्य भुञ्जीत हितं हिताशी ॥ ८० ॥
किञ्चिदामेन मन्दाग्निरभयागुडनागरम् ।
जग्ध्वा तक्रेण भुञ्जीत युक्तेनान्नं षडूषणैः ॥ ८१ ॥
१७विषूचिकायां वमितं विरिक्तं
सुलङ्घितं वा मनुजं विदित्वा ।
पेयादिभिर्दीपनपाचनैश्च
सम्यक्क्षुधार्तं समुपक्रमेत ॥ ८२ ॥
कुष्ठसैन्धवयोः कल्कं चुक्रतैलसमन्वितम् ।
विषूच्यां मर्दनं कोष्णं खल्लीशूलनिवारणम् ॥ ८३ ॥
करञ्जनिम्बशिखरीगुडूच्यर्जकवत्सकैः ।
पीतः कषायो वसनाद्धोरांहन्ति विषूचिकाम् ॥ ८४ ॥
व्योषं करञ्जस्य फलं हरिद्रां
मूलं समायाप्य च मातुलुङ्ग्याः ।
छायाविशुष्का गुडिकाः कृतास्ता
हन्युर्विषूचीं नयनाञ्जनेन ॥ ८५ ॥
गुडपुष्पसारशिखरी-
तण्डुलगिरिकर्णिकाहरिद्राभिः ।
अञ्जनगुडिका विलयति
विषूचिकां त्रिकटुसनाथा ॥ ८६ ॥
त्वक्पत्ररास्नागुरुशिग्रुकुष्ठै-
रम्लेन पिष्टैः सवचाशताह्वैः ।
उद्वर्तनं यद्धि विषूचिकाघ्नं
तैलं विपक्वं च तदर्थकारि ॥ ८७ ॥
१८पिपासायामनुत्क्लेशे लवङ्गस्याम्बु शस्यते ।
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥ ८८ ॥
विषूच्यामतिवृद्धायां पाण्योर्दाहः प्रशस्यते ।
वमनं त्वलसे पूर्वं लवणेनोष्णवारिणा ॥ ८९ ॥
स्वेदो वर्तिर्लङ्घनं च क्रमश्चातोऽग्निवर्धनः ।
सरुक् चानद्धमुदरमम्लपिष्टैः प्रलेपयेत् ।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ॥ ९० ॥
तक्रेण चूर्णं यवचूर्णमुष्णं
सक्षारमार्तिं जठरे निहन्यात् ।
स्वेदो वटैर्वा बहुवास्यपूर्णै-
रुष्णैस्तथान्यैरपि पाणितापैः ॥ ९१ ॥
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ।
दोषाच्छन्नोऽनलो नालं पक्तुं दोषौघनाशनम् ॥ ९२ ॥