52-a
स्वेदो वर्तिर्लङ्घनं च क्रमश्चातोऽग्निवर्धनः ।
सरुक् चानद्धमुदरमम्लपिष्टैः प्रलेपयेत् ।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ॥ ९० ॥
तक्रेण चूर्णं यवचूर्णमुष्णं
सक्षारमार्तिं जठरे निहन्यात् ।
स्वेदो वटैर्वा बहुवास्यपूर्णै-
रुष्णैस्तथान्यैरपि पाणितापैः ॥ ९१ ॥
तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम् ।
दोषाच्छन्नोऽनलो नालं पक्तुं दोषौघनाशनम् ॥ ९२ ॥

Adhikāra 7

पारसी यमानिका
पीता पर्युषितवारिणा प्रातः ।
गुडपूर्वा क्रिमिजातं
कोष्ठगतं पातयत्याशु ॥ १ ॥