Adhikāra 78

320-a
ब्राह्मे मुहूर्ते उत्तिष्ठेत्सुस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः ॥ १ ॥
प्रातर्भुक्त्वा च मृद्वग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन् ॥ २ ॥
नाद्यादजीर्णवमथुश्वासकासज्वरार्दितः ।
तृष्णास्यपाकहृन्नेत्रशिरःकर्णामयी च तत् ।
सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत् ॥ ३ ॥
सप्तरात्रेऽष्टरात्रे वा स्रावणार्थं रसाञ्जनम् ।
ततो नावनगण्डूषधूमताम्बूलभाग्भवेत् ॥ ४ ॥
ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम् ।
विषमूर्च्छामदार्तानामपथ्यं चापि शोषिणाम् ॥ ५ ॥
320-b
अभ्यङ्गमाचरेन्नित्यं सजराश्रमवातहा ।
शिरःश्रवणपादेषु तं विशेषेण शीलयेत् ॥ ६ ॥
बाह्याभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः ।
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धनी ॥ ७ ॥
देहव्यायामसंख्याता मात्रया तां समाचरेत् ।
वातपित्तामयी बालो वृद्धोऽजीर्णी च तां त्यजेत् ॥ ८ ॥
उद्वर्तनं तथा कार्यं ततः स्नानं समाचरेत् ।
उष्णाम्बुनाधःकायस्य परिषेको बलावहः ॥ ९ ॥
तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ।
स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु ॥ १० ॥
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ।
नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायनः ॥ ११ ॥
स्नानशीलः ससुरभिः सुवेषो निर्मलाम्बरः ।
धारयेत्सततं रत्नं सिद्धमन्त्रमहौषधीः ॥ १२ ॥
321-a
सातपत्रपदत्राणो विचरेद्युगमात्रदृक् ।
निशि चात्ययिके कार्ये दण्डी मौनी सहायवान् ॥ १३ ॥
जीर्णे हितं मितं चाद्यान्न वेगान्धारयेद्बलात् ।
न वेगितोऽन्यकार्यः स्यान्नाजित्वासाध्यमामयम् ॥ १४ ॥
दशधा पापकर्माणि कायवाङ्मानसैस्त्यजेत् ।
काले हितं मितं ब्रूयादविसंवादि पेशलम् ॥ १५ ॥
आत्मवत्सततं पश्येदपि कीटपिपीलिकाम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १६ ॥
नक्तंदिनानि मे यान्ति कथंभूतस्य संप्रति ।
दुःखभाक् न भवत्येवं नित्यं सन्निहितस्मृतिः ॥ १७ ॥
मासैर्द्विसंख्यैर्माघाद्यैः क्रमात्षडृतवः स्मृताः ।
वलिनः शीतसंरोधाद्धेमन्ते प्रवलोऽनलः ॥ १८ ॥
सेवेतातो हिमे स्निग्धिस्वाद्वम्ललवणान् रसान् ।
गोधूमपिष्टमांसेक्षुक्षीरोत्थविकृतीः सुराम् ॥ १९ ॥
नवमन्नं वसां तैलं शौचकार्ये सुखोदकम् ।
युक्त्यार्ककिरणान् स्वेदं पादत्राणं च सर्वदा ॥ २० ॥
प्रावाराजिनकौशेयप्रवेणीकुथकास्तृतम् ।
उप्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत् ॥ २१ ॥
अङ्गारतापसंतप्तगर्भभूवेश्मनि प्रियाम् ।
पीवरोरुस्तनश्रोणीमालिङ्ग्यागुरुचर्चिताम् ॥ २२ ॥
321-b
अयमेव विधिः कार्यः शिशिरेऽपि विशेपतः ।
तदा हि शीतमाध्वीकं रौक्षं चादनकालजम् ॥ २३ ॥
कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः ।
हत्वाग्निं कुरुते रोगांस्ततस्तत्र प्रयोजयेत् ॥ २४ ॥
तीक्ष्णं वमननस्यादिकवडग्रहमञ्जनम् ।
व्यायामोद्वर्तनं धूमं शौचकार्ये सुखोदकम् ॥ २५ ॥
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः ।
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक् ।
प्रपिबेदासवारिष्टसीधुमाध्वीकमाधवान् ॥ २६ ॥
वसन्तेऽनुभवेत्स्त्रीणां काननानां च यौवनम् ।
गुरूष्णस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् ॥ २७ ॥
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः ।
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥ २८ ॥
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः ।
घृतं पयः सशाल्यन्नं भजन्ग्रीष्मे न सीदति ॥ २९ ॥
322-a
मद्यमल्पं न वा पेयमथवा सुबहूदकम् ।
मध्याह्ने चन्दनार्द्राङ्गः स्वप्याद्धारागृहे निशि ॥ ३० ॥
निशाकरकराकीर्णे प्रवाते सौधमस्तके ।
निवृत्तकामो व्यजनैः पाणिस्पर्शैः सचन्दनैः ॥ ३१ ॥
सेव्यमानो भजेतास्यां मुक्तामणिविभूषितः ।
लवणाम्लकटूष्णानि व्यायामं चात्र वर्जयेत् ॥ ३२ ॥
भूबाष्पान्मेघनिस्यन्दात्पाकादम्लाज्जलस्य च ।
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः ॥ ३३ ॥
भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत् ।
आस्थापनं शुद्धतनुर्जीर्णं धान्यं कृतान्रसान् ॥ ३४ ॥
जाङ्गलं पिशितं यूषान्मध्वरिष्टं चिरन्तनम् ।
दिव्यं कौपं शृतं वाम्भो भोजनं त्वतिदुर्दिने ॥ ३५ ॥
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु ।
नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत् ॥ ३६ ॥
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः ।
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति ॥ ३७ ॥
तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम् ।
तिक्तस्वादुकपायं च क्षुधितोऽन्नं भजेल्लघु ॥ ३८ ॥
322-b
इक्षवः शालयो मुद्गाः सरोऽम्भः क्वथितं पयः ।
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ॥ ३९ ॥
शारदानि च माल्यानि वासांसि विमलानि च ।
तुषारक्षारसौहित्यदधितैलरसातपान् ॥ ४० ॥
तीक्ष्णमद्यदिवास्वप्नपुरोवातातपांस्त्यजेत् ।
शीते वर्पासु चाद्यांस्त्रीन्वसन्तेऽन्त्यान्रसान्भजेत् ॥ ४१ ॥
स्वादून्निदाघे शरदि स्वादुतिक्तकपायकान् ।
शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः ॥ ४२ ॥
अन्नपानं समासेन विपरीतमतोऽन्यथा ।
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ ॥ ४३ ॥
ऋतोराद्यन्तसप्ताहावृतुसन्धिरिति स्मृतः ।
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमः ॥ ४४ ॥
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम् ।
उपशेते यदौचित्यादोकसात्म्यं तदुच्यते ॥ ४५ ॥
देशानामामयानां च विपरीतं गुणं गुणैः ।
सात्म्यमिच्छन्ति सात्मज्ञाश्चेष्टितं चाद्यमेव च ॥ ४६ ॥
तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।
अजातानां विकाराणामनुत्पत्तिकरं च यत् ॥ ४७ ॥
नगरी नगरस्येव रथस्येव रथी यथा ।
स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत् ॥ ४८ ॥
323-a
गौडाधिनाथरसवत्यधिकारिपात्र-
नारायणस्य तनयः सुनयोऽन्तरङ्गात् ।
भानोरनुप्रथितलोध्रवलीकुलीनः ।
श्रीचक्रदत्त इह कर्तृपदाधिकारी ॥ १ ॥
323-b
यः सिद्धयोगलिखिताधिकसिद्धयोगा-
नत्रैव निक्षिपति केवलमुद्धरेद्वा ।
भट्टत्रयत्रिपथवेदविदा जनेन
दत्तः पतेत्सपदि मूर्धनि तस्य शापः ॥ २ ॥
वसुवेदांकभूम्यब्दे १९४८ कार्तिके मासि धीमता ।
रविदत्तेन वैद्येन भाषाटीका सुकल्पिता ॥ १ ॥