Adhikāra 12
१हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते ।
स्निग्धैर्लवणयोगैश्च मृदुर्वातानुलोमनम् ॥ १ ॥
ऊर्ध्वाधःशोधनं शक्ते दुर्बले शमनं मतम् ।
कोलमज्जाञ्जनं लाजातिक्ताकाञ्चनगैरिकम् ॥ २ ॥
कृष्णा धात्री सिता शुण्ठी काशीसं दधि नाम च ।
पाटल्याः सफलं पुष्पं कृष्णाखर्जूरमुस्तकम् ॥ ३ ॥
षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः ।
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता ॥ ४ ॥
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् ।
स्तन्येन मक्षिकाविष्ठा नस्यं वालक्तकाम्बुना ॥ ५ ॥
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम् ।
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् ॥ ६ ॥
हिक्कार्तस्य पयश्छागं हितं नागरसाधितम् ।
कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम् ॥ ७ ॥
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासनिवारणम् ।
हिक्काश्वासी पिबेद्भार्गीं सविश्वामुष्णवारिणा ।
नागरं वा सिता भार्गी सौवर्चलसमन्वितम् ॥ ८ ॥
शृङ्गीकटुत्रिकफलात्रयकण्टकारी-
भार्गीसपुष्करजटालवणानि पञ्च ।
चूर्णं पिबेदशिशिरेण जलेन हिक्का-
श्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ ९ ॥
अभयानागरकल्कं
पौष्करयवशूकमरिचकल्कं वा ।
तोयेनोष्णेन पिबे-
च्छ्वासी हिक्की च तच्छान्त्यै ॥ १० ॥
अमृतानागरफञ्जी-
व्याघ्रीपर्णाशसाधितः क्वाथः ।
पीतः सकणाचूर्णः
कासश्वासौ जयत्याशु ॥ ११ ॥
२दशमूलीकषायस्तु पुष्करेण विचूर्णितः ।
श्वासकासप्रशमनः पार्श्वहृच्छूलनाशनः ॥ १२ ॥
कुलत्थनागरव्याघ्रीवासाभिः क्वथितं जलम् ।
पीतं पुष्करसंयुक्तं हिक्काश्वासनिबर्हणम् ॥ १३ ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत् ।
त्रिसप्ताहप्रयोगेण श्वासं निर्मूलतो जयेत् ॥ १४ ॥
शृङ्गीमहौषधकणाघनपुष्कराणां
चूर्णं शठीमरिचशर्करया समेतम् ।
क्वाथेन पीतममृतावृषपञ्चमूल्याः
श्वासं त्र्यहेण शमयेदतिदोषमुग्रम् ॥ १५ ॥
हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शठीम् ।
जह्यात्तैलेन विलिहञ्छ्वासान्प्राणहरानपि ॥ १६ ॥
हिक्कां हरति प्रवलां
प्रवलं श्वासं च नाशयत्याशु ।
शिखिपुच्छभूतिपिप्पली-
चूर्णं मधुमिश्रितं लीढम् ॥ १७ ॥
कर्षं कलिफलचूर्णं
लीढं चात्यन्तमिश्रितं मधुना ।
अचिराद्धरति श्वासं
प्रबलामुद्धंसिकां चैव ॥ १८ ॥
३हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ।
द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम् ॥ १९ ॥
कोलमात्रैः पचेत्तद्धि कासश्वासं व्यपोहति ।
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ॥ २० ॥
४तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ।
भूतिकं पौष्करं मूलं पलाशं चित्रकं शठी ॥ २१ ॥
सौवर्चलं तामलकी सैन्धवं बिल्वपेषिका ।
तालीसपत्रं जीवन्ती वचा तैरक्षसंमितैः ॥ २२ ॥
हिङ्गुपादैर्घृतं प्रस्थं पचेत्तोयचतुर्गुणे ।
एतद्यथावलं पीत्वा हिक्काश्वासौ जयेन्नरः ॥ २३ ॥
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च ।
76-b
५शतं संगृह्य भार्ग्यास्तु दशमूल्यास्तथापरम् ॥ २४ ॥
शतं हरीतकीनां च पचेत्तोयचतुर्गुणे ।
पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २५ ॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ।
पुनः प्रचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २६ ॥
शीतेषु मधुनश्चात्र षट्पलानि प्रदापयेत् ।
त्रिकटु त्रिसुगन्धं च पलिकानि पृथक् पृथक् ॥ २७ ॥
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ।
भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २८ ॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ।
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः ॥ २९ ॥
पलोल्लेखागते माने न द्वैगुण्यमिहेष्यते ।
हरीतकीशतस्यात्र प्रस्थत्वादाढकं जलम् ॥ ३० ॥
६कुलत्थं दशमूलं च तथैव द्विजयष्टिका ।
शतं शतं च संगृह्य जलद्रोणे विपाचयेत् ॥ ३१ ॥
पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत् ।
शीतीभूते च पक्वे च मधुनोऽष्टौ पलानि च ॥ ३२ ॥
षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम् ।
त्रिसुगन्धिकयुक्तं तत्खादेदग्निबलं प्रति ॥ ३३ ॥
श्वासं कासं ज्वरं हिक्कां नाशयेत्तमकं तथा ।
प्रतिशतं द्रोणनियमाज्ज्ञेयं द्रोणत्रयं त्विह ॥ ३४ ॥