75-b
दशमूलीकषायस्तु पुष्करेण विचूर्णितः ।
श्वासकासप्रशमनः पार्श्वहृच्छूलनाशनः ॥ १२ ॥
कुलत्थनागरव्याघ्रीवासाभिः क्वथितं जलम् ।
पीतं पुष्करसंयुक्तं हिक्काश्वासनिबर्हणम् ॥ १३ ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत् ।
त्रिसप्ताहप्रयोगेण श्वासं निर्मूलतो जयेत् ॥ १४ ॥
शृङ्गीमहौषधकणाघनपुष्कराणां
चूर्णं शठीमरिचशर्करया समेतम् ।
क्वाथेन पीतममृतावृषपञ्चमूल्याः
श्वासं त्र्यहेण शमयेदतिदोषमुग्रम् ॥ १५ ॥
हरिद्रां मरिचं द्राक्षां गुडं रास्नां कणां शठीम् ।
जह्यात्तैलेन विलिहञ्छ्वासान्प्राणहरानपि ॥ १६ ॥
हिक्कां हरति प्रवलां
प्रवलं श्वासं च नाशयत्याशु ।
शिखिपुच्छभूतिपिप्पली-
चूर्णं मधुमिश्रितं लीढम् ॥ १७ ॥
कर्षं कलिफलचूर्णं
लीढं चात्यन्तमिश्रितं मधुना ।
अचिराद्धरति श्वासं
प्रबलामुद्धंसिकां चैव ॥ १८ ॥