76-a
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ।
द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम् ॥ १९ ॥
कोलमात्रैः पचेत्तद्धि कासश्वासं व्यपोहति ।
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ॥ २० ॥
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ।
भूतिकं पौष्करं मूलं पलाशं चित्रकं शठी ॥ २१ ॥
सौवर्चलं तामलकी सैन्धवं बिल्वपेषिका ।
तालीसपत्रं जीवन्ती वचा तैरक्षसंमितैः ॥ २२ ॥
हिङ्गुपादैर्घृतं प्रस्थं पचेत्तोयचतुर्गुणे ।
एतद्यथावलं पीत्वा हिक्काश्वासौ जयेन्नरः ॥ २३ ॥
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज एव च ।