76-b
शतं संगृह्य भार्ग्यास्तु दशमूल्यास्तथापरम् ॥ २४ ॥
शतं हरीतकीनां च पचेत्तोयचतुर्गुणे ।
पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥ २५ ॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ।
पुनः प्रचेत्तु मृद्वग्नौ यावल्लेहत्वमागतम् ॥ २६ ॥
शीतेषु मधुनश्चात्र षट्पलानि प्रदापयेत् ।
त्रिकटु त्रिसुगन्धं च पलिकानि पृथक् पृथक् ॥ २७ ॥
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ।
भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥ २८ ॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ।
स्वरवर्णप्रदो ह्येष जठराग्नेश्च दीपनः ॥ २९ ॥
पलोल्लेखागते माने न द्वैगुण्यमिहेष्यते ।
हरीतकीशतस्यात्र प्रस्थत्वादाढकं जलम् ॥ ३० ॥
कुलत्थं दशमूलं च तथैव द्विजयष्टिका ।
शतं शतं च संगृह्य जलद्रोणे विपाचयेत् ॥ ३१ ॥
पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत् ।
शीतीभूते च पक्वे च मधुनोऽष्टौ पलानि च ॥ ३२ ॥
षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम् ।
त्रिसुगन्धिकयुक्तं तत्खादेदग्निबलं प्रति ॥ ३३ ॥
श्वासं कासं ज्वरं हिक्कां नाशयेत्तमकं तथा ।
प्रतिशतं द्रोणनियमाज्ज्ञेयं द्रोणत्रयं त्विह ॥ ३४ ॥

Adhikāra 13