83-a
क्षीरेक्षुरसमाध्वीकैः क्षौद्रशीधुगुडोदकैः ॥ १७ ॥
वृक्षाम्लाम्लैश्च गण्डूषस्तालुशोषनिवारणः ।
तालुशोषे पिबेत्सर्पिर्घृतमण्डमथापि वा ॥ १८ ॥
मूर्च्छाच्छर्दितृषादाहस्त्रीमद्यभृशकर्षिताः ।
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥ १९ ॥
धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम् ।
तदेवालवणं पीतं मुखशोपहरं परम् ॥ २० ॥
वैशद्यं जनयत्यास्ये संदधाति मुखे व्रणान् ।
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् ॥ २१ ॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः ।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥ २२ ॥
वारि शीतमधुयुतमाकण्ठाद्वा पिपासितम् ।
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥ २३ ॥
वटशुङ्गामयक्षौद्रलाजनीलोत्पलैर्दृढा ।
गुटिका वदनन्यस्ता क्षिप्रं तृष्णां नियच्छति ॥ २४ ॥