Adhikāra 20
१उन्मादे वातिके पूर्वं स्नेहपानं विरेचनम् ।
पित्तजे कफजे वान्तिः परो बस्त्यादिकः क्रमः ॥ १ ॥
यच्चोपदेक्ष्यते किञ्चिदपस्मारचिकित्सिते ।
उन्मादे तच्च कर्तव्यं सामान्याद्दोषदूष्ययोः ॥ २ ॥
सब्राह्मीकूष्माण्डी
षड्ग्रन्थाशङ्खपुष्पिकास्वरसाः ।
उन्मादहृतो दृष्टाः
पृथगेते कुष्ठमधुमिश्राः ॥ ३ ॥
दशमूलाम्बु सघृतं युक्तं मांसरसेन वा ।
ससिद्धार्थकचूर्णं वा पुराणं वैककं घृतम् ॥ ४ ॥
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ।
लाक्षारसनिभं शीतं प्रपुराणमतः परम् ॥ ५ ॥
श्वेतोन्मत्तोत्तरदिङ्मूलसिद्धस्तु पायसः ।
गुडाज्यसंयुतो हन्ति सर्वोन्मादांस्तु दोषजान् ॥ ६ ॥
२उन्मादे समधुः पेयः शुद्धो वा तालशाखजः
रसो नस्येऽभ्यञ्जने च सार्षपं तैलमिष्यते ॥ ७ ॥
अपक्वचटकी क्षीरपीतोन्मादविनाशिनी ।
बद्धं सार्षपतैलाक्तमुत्तानं चातपे न्यसेत् ॥ ८ ॥
सिद्धार्थको हिङ्गु वचाकरञ्जौ देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम् ॥ ९ ॥
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ।
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥ १० ॥
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ।
अपस्मारविषोन्मादं हृत्वा लक्ष्मीज्वरापहः ॥ ११ ॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ।
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थ कृत् ॥ १२ ॥
३त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी ।
शिरीषनक्तमालानां बीजं श्वेताश्च सर्षपाः ॥ १३ ॥
गोमूत्रपिष्टैरेतैर्वा वर्तिर्नेत्राञ्जने हिता ।
चातुर्थकमपस्मारमुन्मादं च नियच्छति ॥ १४ ॥
४शुद्धस्याचारविभ्रंशे तीक्ष्णं नावनमञ्जनम् ।
ताडनं च मनोबुद्धिस्मृतिसंवेदनं हितम् ॥ १५ ॥
तर्जनं त्रासनं दानं सान्त्वनं हर्षणं भयम् ।
विस्मयो विस्मृतेर्हेतोर्नयन्ति प्रकृतिं मनः ॥ १६ ॥
कामशोकभयक्रोधहर्षेर्षालोभसम्भवान् ।
परस्परप्रतिद्वन्द्वैरैभिरेव शमं नयेत् ॥ १७ ॥
इष्टद्रव्यविनाशात्तु मनो यस्योपहन्यते ।
तस्य तत्सदृशप्राप्त्या शान्त्याश्वासैश्च ताञ्जयेत् ॥ १८ ॥
५प्रदेहोत्सादनाभ्यङ्गधूमाः पानं च सर्पिषः ।
प्रयोक्तव्यं मनोबुद्धिस्मृतिसंज्ञाप्रबोधनम् ॥ १९ ॥
कल्याणकं महद्वापि दद्याद्वा चैतसं घृतम् ।
तैलं नारायणं चापि महानारायणं तथा ॥ २० ॥
६विशालात्रिफलाकौन्तीदेवदार्वेलवालुकम् ।
स्थिरानतं रजन्यौ द्वे शारिवे द्वे प्रियङ्गुकाः ॥ २१ ॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् ।
तालीशपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २२ ॥
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ ।
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः ॥ २३ ॥
चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् ।
अपस्मारे ज्वरे कासे शोषे मन्दानले क्षये ॥ २४ ॥
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके ।
वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु च ॥ २५ ॥
कण्डूपाण्ड्वामयोन्मादे विषमेहगरेषु च ।
भूतोपहतचित्तानां गद्गदानामरेतसाम् ॥ २६ ॥
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम् ।
अलक्ष्मीपापरक्षोघ्नं सर्वग्रहनिवारणम् ॥ २७ ॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ।
द्विजलं सचतुःक्षीरं क्षीरकल्याणकं त्विदम् ॥ २८ ॥
७एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ।
रसे तस्मिन्पचेत्सर्पिगृष्टिक्षीरचतुर्गुणम् ॥ २९ ॥
वीराद्विमाषकाकोलीस्वयंगुप्तर्षभर्द्धिभिः ।
मेदया च समैः कल्कैस्तत्स्यात्कल्याणकं महत् ।
बृंहणीयं विशेषेण सन्निपातहरं परम् ॥ ३० ॥
८पञ्चमूल्यवकाश्मर्यौ रास्नैरण्डत्रिवृद्बला ।
मूर्वा शतावरी चेति क्वाथ्यैर्द्विपलिकैरिमैः ॥ ३१ ॥
कल्याणकस्य चाङ्गेन तद्धृतं चैतसं स्मृतम् ।
सर्वचेतोविकाराणां शमनं परमं मतम् ॥ ३२ ॥
घृतप्रस्थोऽत्र पक्तव्यः क्वाथो द्रोणाम्भसा वृतात् ।
चतुर्गणोऽत्र सम्पाद्यः कल्कः कल्याणकेरितः ॥ ३३ ॥
९जटिला पूतना केशी चारटी मर्कटी वचा ।
त्रायमाणा जयावीरा चोरकः कटुरोहिणी ॥ ३४ ॥
वयस्था शूकरी छत्रा सातिच्छत्रा पलङ्कषा ।
महापरुषदन्ता च वयस्था नाकुलीद्वयम् ॥ ३५ ॥
कटुम्भरा वृश्चिकाली स्थिरा चैव च तैर्घृतम् ।
सिद्धं चातुर्थकोन्मादग्रहापस्मारनाशनम् ॥ ३६ ॥
महापैशाचिकं नाम घृतमेतद्यथामृतम् ।
मेधाबुद्धिस्मृतिकरं बालानां चाङ्गवर्धनम् ॥ ३७ ॥
१०हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥ ३८ ॥
११लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम् ।
तदर्धं दशमूल्यास्तु द्व्याढकेऽपां विपाचयेत् ॥ ३९ ॥
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा ।
कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः ॥ ४० ॥
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः ।
साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः ॥ ४१ ॥
यमानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः ।
सिद्धमेतत्पिबेच्छूलगुल्मार्शोजठरापहम् ॥ ४२ ॥
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषक्रिमिज्वरान् ।
वातश्लेष्मामयांश्चान्यानुन्मादांश्चापकर्षति ॥ ४३ ॥
१२सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः ।
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः ॥ ४४ ॥
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ।
कृष्णामरिचसिन्धूत्थमधुगोपित्तनिर्मितम् ॥ ४५ ॥
अञ्जनं सर्वभूतोत्थमहोन्मादविनाशनम् ।
दार्वीमधुभ्यां पुष्यायां कृतं च गुडिकाञ्जनम् ॥ ४६ ॥
मरिचं वातपे मांसं सपित्तं स्थितमञ्जनम् ।
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः ॥ ४७ ॥
निम्बपत्रवचाहिङ्गुसर्पनिर्मोकसर्षपैः ।
डाकिन्यादिहरो धूपोभूतोन्मादविनाशनः ॥ ४८ ॥
कार्पासास्थिमयूरपिच्छबृहती-
निर्माल्यपिण्डीतकै-
स्त्वङ्वांसीवृषदंशविट्तुषवचा-
केशाहिनिर्मोककैः ।
गोशृङ्गद्विपदन्तहिङ्गुमरिचै-
स्तुल्यैस्तु धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरा-
वेशज्वरघ्नः स्मृतः ॥ ४९ ॥
व्रह्मराक्षसजिन्नस्यं पक्वैन्द्रीफलमूत्रजम् ।
साज्यं भूतहरं नस्यं श्वेताज्येष्ठाम्बुनिर्मितम् ॥ ५० ॥
देवर्षिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान् ।
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरमेव च ॥ ५१ ॥