92-a
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ॥ २९ ॥
यष्ट्याह्वकल्कं तत्पानमपस्मारविनाशनम् ।
ब्रह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च ॥ ३० ॥
पुराणं मेध्यमुन्मादग्रहापस्मारनुद्धृतम् ।
१०पलङ्कषावचापथ्यावृश्चिकाल्यर्कसर्षपैः ॥ ३१ ॥
जटिलापूतनाकेशीलाङ्गलीहिङ्गुचोरकैः ।
लशुनातिरसाचित्राकुष्ठैर्विड्भिश्च पक्षिणाम् ॥ ३२ ॥
मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे ।
सिद्धमभ्यञ्जने तैलमपस्मारविनाशनम् ॥ ३३ ॥
११अभ्यङ्गः सार्षपं तैलं बस्तमूत्रे चतुर्गुणे ।
सिद्धं स्याद्गोशकृन्मूत्रैः पानोत्सादनमेव च ॥ ३४ ॥

Adhikāra 22