115-a
१६शतावरीनागबलावृद्धदारकमुच्चटाः ।
पुनर्नवामृताकृष्णावाजिगन्धात्रिकण्टकम् ॥ ६२ ॥
पृथग्दशपलान्येषां श्लक्ष्णं चूर्णानि कारयेत् ।
तदर्धशर्करायुक्तं चूर्णं संमर्दयेद्बुधः ॥ ६३ ॥
स्थापयेत्सुदृढे भाण्डे मध्वर्धाढकसंयुतम् ।
घृतप्रस्थे समालोड्य त्रिसुगन्धिपलेन तु ॥ ६४ ॥
तं खादेदिष्टचेष्टान्नो यथावह्निबलं नरः ।
वातरक्तं क्षयं कुष्ठं कार्श्यं पित्तास्रसम्भवम् ॥ ६५ ॥
वातपित्तकफोत्थांश्च रोगानन्यांश्च तद्विधान् ।
हत्वा करोति पुरुषं बलीपलितवर्जितम् ।
योगसारामृतो नाम लक्ष्मीकान्तिविवर्धनः ॥ ६६ ॥
दिवास्वप्नाग्निसन्तापं व्यायामं मैथुनं तथा ।
कटूष्णगुर्वभिष्यन्दिलवणाम्लानि वर्जयेत् ॥ ६७ ॥

Adhikāra 24