110-b
बाह्यं लेपाभ्यङ्गसेको पानाहैर्वातशोणितम् ।
विरेकस्थापनस्नेहपानैर्गम्भीरमाचरेत् ॥ १ ॥
द्वयोर्मुञ्चेदसृक् शृङ्गसूच्यलाबूजलौकसा ।
देहाद्देशं व्रजेत्स्राव्यं शिराभिः पुच्छनेन वा ॥ २ ॥
अङ्गग्लानौ च न स्राव्यं रुक्षे वातोत्तरे च यत् ।
अमृतनागरधन्याककर्षत्रयेण पाचनं सिद्धम् ॥ ३ ॥
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ।
वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः
समीरणसमायुक्तं शोणितं संप्रसाधयेत् ॥ ४ ॥
वासागुडूचीचतुरङ्गुलाना-
मेरण्डतैलेन पिबेत्कषायम्
क्रमेण सर्वाङ्गजमप्यशेषं
जयेदसृग्वातभवं विकारम् ॥ ५ ॥
लीड्ढा मुण्डितिकाचूर्णं मधुसर्पिः समन्वितम् ।
छिन्नाक्वाथं पिबन्हन्ति वातरक्तं सुदुस्तरम् ॥ ६ ॥