117-a
रास्नामृतारग्वधदेवदारु-
त्रिकण्टकैरण्डपुनर्नवानाम् ।
क्वाथं पिबेन्नागरचूर्णमिश्रं
जङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥ ८ ॥
शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।
सामवाते कटीशूले पाचनो रुक्प्रणाशनः ॥ ९ ॥
आमवाते कणायुक्तं दशमूलरसं पिबेत् ।
खादेद्वाप्यभयाविश्वं गुडूचीं नागरेण वा ॥ १० ॥
एरण्डतैलसंयुक्तां हरीतकीं भक्षयेन्नरो विधिवत् ।
आमानिलार्तियुक्तो गृध्रसीवृद्ध्यर्दितो नित्यम् ॥ ११ ॥
कर्षं नागरचूर्णस्य काञ्जिकेन पिबेत्सदा ।
आमवातप्रशमनं कफवातहरं परम् ॥ १२ ॥
पञ्चकोलकचूर्णं च पिबेदुष्णेन वारिणा ।
मन्दाग्निशूलगुल्मामकफारोचकनाशनम् ॥ १३ ॥
अमृतानागरगोक्षुरमुण्डतिकावरुणकैः कृतं चूर्णम् ।
मस्त्वारणालपीतमामानिलनाशनं ख्यातम् ॥ १४ ॥
माणिमन्थस्य भागौ द्वौ यमान्यास्तद्वदेव तु ।
भागास्त्रयोऽजमोदाया नागराद्भागपञ्चकम् ॥ १५ ॥
दश द्वौ च हरीतक्याः श्लक्ष्णचूर्णीकृताः शुभाः ।
मस्त्वारणालतक्रेण सर्पिषोष्णोदकेन वा ॥ १६ ॥
पीतं जयत्यामवातगुल्मं हृद्वस्तिजान्गदान् ।
प्लीहानं हन्ति शूलादीनानाहं गुदजानि च ॥ १७ ॥
विबन्धं जाठरान्रोगांस्तथा वै हस्तपादजान् ।
वातानुलोमनमिदं चूर्णं वैश्वानरं स्मृतम् ॥ १८ ॥