146-b
मैथुनोपरमश्चास्य बृंहणीयो हितो विधिः ।
स्वगुप्ताफलमृद्वीकाकृष्णेक्षुरसितारजः ॥ १६ ॥
समांशमर्धभागानि क्षीरक्षौद्रघृतानि च ।
सर्वं सम्यग्विमथ्याक्षमानं लीढ्वा पयः पिबेत् ॥ १७ ॥
हन्ति शुक्राशयोत्थांश्च दोषान्वन्ध्यासुतप्रदम् ।
चित्रकं शारिवा चैव बलाकालानुशारिवा ॥ १८ ॥
द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् ।
तथैव मधुकं दद्याद्दद्यादामलकानि च ॥ १९ ॥
घृताढकं पचेदेभिः कल्कैरक्षसमन्वितैः ।
क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ॥ २० ॥
शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् ।
तुगाक्षीर्याश्च तत्सर्वं मतिमान्प्रतिमिश्रयेत् ॥ २१ ॥