Adhikāra 33

वरुणस्य त्वचं श्रेष्ठां शुण्ठीगोक्षुरसंयुताम् ।
यवक्षारगुडं दत्वा क्वाथयित्वा पिबेद्धिताम् ॥ १ ॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ।
वीरतरः सहचरी दर्भो वृक्षादनी नलः ॥ २ ॥
गुन्द्राकाशकुशावश्मभेदमोरटटुण्टुकाः ।
कुरुण्टिका च वशिरो वसुकः साग्निमन्थकः ॥ ३ ॥
इन्दीवरी श्वदंष्ट्रा च तथा कापोतवक्त्रकः ।
वीरतरादिरित्येष गणो वातविकारनुत् ॥ ४ ॥
147-b
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ।
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ॥ ५ ॥
अभयारग्वधफलैः क्वाथं कुर्याद्विचक्षणः ।
रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः ॥ ६ ॥
अश्मरीमूत्रकृच्छ्रघ्नं पाचनं दीपनं परम् ।
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥ ७ ॥
पाषाणभेदो वसुको वशिरोऽश्मन्तकं तथा ।
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ८ ॥
कपोतवक्त्रार्तगलकाञ्चनोशीरगुल्मकाः ।
वृक्षादनीभल्लुकश्च वरुणः शाकजं फलम् ॥ ९ ॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ।
उषकादिप्रतीवापमेषां क्वाथे शृतं घृतम् ॥ १० ॥
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु ।
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि च कुर्वीत वर्गेऽस्मिन्वातनाशने ॥ ११ ॥
148-a
उषकं सैन्धवं हिङ्गुकाशीसद्वयगुग्गुलुः ।
शिलाजतु तुत्थकं च उषकादिरुदाहृतः ॥ १२ ॥
उषकादिः कफं हन्ति गणो मेदोविशोधनः ।
अश्मरीशर्करामूत्रशूलघ्नः कफगुल्मनुत् ॥ १३ ॥
कुशः काशः शरो गुल्म इत्करो मोरटोऽश्मभित् ।
दर्भो विदारी वाराही शालिमूलं त्रिकण्टकः ॥ १४ ॥
भल्लूकः पाटली पाठा पत्तूरोऽथ कुरुण्टिकाः ।
पुनर्नवे शिरीषश्च क्वथितास्तेषु साधितम् ॥ १५ ॥
घृतं शिलाह्वमधुकं बीजैरिन्दीवरस्य च ।
त्रपुषैर्वारुकाणां वा बीजैश्चावापितं शृतम् ॥ १६ ॥
भिनत्ति पित्तसम्भूतामश्मरीं क्षिप्रमेव तु ।
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि च कुर्वीत वर्गेऽस्मिन्पित्तनाशने ॥ १७ ॥
गणे वरुणकादौ च गुग्गुल्वेलाहरेणुभिः ।
कुष्ठमुस्ताह्वमरिचचित्रकैः ससुराह्वयैः ॥ १८ ॥
एतैः सिद्धमजासर्पिरुषकादिगणेन च ।
भिनत्ति कफसम्भूतामश्मरीं क्षिप्रमेव तु ॥ १९ ॥
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि प्रकुर्वीत वर्गेऽस्मिन्कफनाशने ॥ २० ॥
तरुणार्तगलः शिग्रुतर्कारीमधुशिग्रुकाः ।
मेषशृङ्गीकरञ्जौ च बिम्ब्यग्निमन्थमोरटाः ॥ २१ ॥
148-b
शैरियौ शिरीषो दर्भो वरी वसुकचित्रकौ ।
बिल्वं चैवाजशृङ्गी च बृहतीद्वयमेव च ॥ २२ ॥
वरुणादिगणो ह्येष कफमेदोनिवारणः ।
विनिहन्ति शिरःशूलं गुल्माद्यन्तरविद्रधीन् ॥ २३ ॥
वरुणत्वक्कषायं तु पीतं च गुडसंयुतम् ।
अश्मरीं पातयत्याशु बस्तिशूलनिवारणम् ॥ २४ ॥
यवक्षारं गुडोन्मिश्रं पिबेत्पुष्पफलोद्भवम् ।
रसं मूत्रविबन्धघ्नं शर्काश्मरिविनाशनम् ॥ २५ ॥
पिबेद्वरुणमूलत्वक्क्वाथं तत्कल्कसंयुतम् ।
क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिघातनः ॥ २६ ॥
नागरवारुणगोक्षुर-
पाषाणभेदकपोतवल्कजः क्वाथः ।
गुडयावशूकमिश्रः
पीतो हन्त्यश्मरीमुग्राम् ॥ २७ ॥
वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ।
कषायः क्षारसंयुक्तः शर्करां च भिनत्त्यपि ॥ २८ ॥
श्वदंष्ट्रैरण्डपत्राणि नागरं वरुणत्वचम् ।
एतत्क्वाथवरं प्रातः पिबेदश्मरिभेदनम् ॥ २९ ॥
मूलं श्वदंष्ट्राक्षुरकोरुबूकात्
क्षीरेण पिष्टं बृहतीद्वयाच्च ।
आलोड्य दघ्ना मधुरेण पेयं
दिनानि सप्ताश्मरिभेदनार्थम् ॥ ३० ॥
पक्वेक्ष्वाकुरसः क्षारः सितायुक्तोऽश्मरीहरः ॥ ३१ ॥
पाषाणरोगपीडां सौवर्चलयुक्ता सुरा जयति ।
तद्वन्मधुदुग्धयुक्ता त्रिरात्रं तिलनालभूतिश्च ॥ ३२ ॥
149-a
एलोपकुल्यामधुकाश्मभेद-
कौन्तीश्वदंष्ट्रावृषकोरुबूकैः ।
क्वाथं पिबेदश्मजतुप्रगाढं
सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ ३३ ॥
त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम् ।
अविक्षीरेण सप्ताहं पिबेदश्मरिनाशनम् ।
शुक्राश्मर्यां तु सामान्यो विधिरश्मरिनाशनः ॥ ३४ ॥
149-b
पाषाणभेदं वृषकं श्वदंष्ट्रा-
पाठाभयाव्योषशठीनिकुम्भाः ।
हिंस्राखराश्वासितिमारकाणा-
मेर्वारुकाच्च त्रपुषाच्च बीजम् ॥ ३५ ॥
उपकुञ्चिकाहिङ्गुसवेतसाम्लं
स्याद्द्वे बृहत्यौ हपुषा वचा च ।
चूर्णं पिबेदश्मरिभेदि पक्वं
सर्पिश्च गोमूत्रचतुर्गुणं तैः ॥ ३६ ॥
१०कुलत्थसिन्धूत्थविडङ्गसारं
सशर्करं शीतलियावशूकम् ।
बीजानि कूष्माण्डकगोक्षुराभ्यां
घृतं पचेन्ना वरुणस्य तोये ॥ ३७ ॥
दुःसाध्यसर्वाश्मरिमूत्रकृच्छ्रं
मूत्राभिघातं च समूत्रबन्धम् ।
एतानि सर्वाणि निहन्ति शीघ्रं
प्ररूढवृक्षानिव वज्रपातः ॥ ३८ ॥
११शरादिपञ्चमूल्या वा कषायेण पचेद्धृतम्
प्रस्थं गोक्षुरकल्केन सिद्धमद्यात्सशर्करम् ।
अश्मरीमूत्रकृच्छ्रघ्नं रेतोमार्गरुजापहम् ॥ ३९ ॥
150-a
१२वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत् ।
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥ ४० ॥
वरुणं कदली बिल्वं तृणजं पञ्चमूलकम् ।
अमृतां चाश्मजं देयं बीजं च त्रपुषोद्भवम् ॥ ४१ ॥
शतपर्वतिलक्षारं पलाशक्षारमेव च ।
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ॥ ४२ ॥
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ।
जीर्णे तस्मिन्पिबेत्पूर्वं गुडं जीर्णं तु मस्तुना ।
अश्मरीं शर्करां चैव मूत्रकृच्छ्रं च नाशयेत् ॥ ४३ ॥
१३ब्रध्नाधिकारे यत्तैलं सैन्धवाद्यं प्रकीर्तितम् ।
तत्तैलं द्विगुणक्षीरं पचेद्वीरतरादिना ॥ ४४ ॥
क्वाथेन पूर्वकल्केन साधितं तु भिषग्वरैः ।
एतत्तैलवरं श्रेष्ठमश्मरीणां विनाशनम् ॥ ४५ ॥
मूत्राघाते मूत्रकृच्छ्रे पिच्छिते मथिते तथा ।
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥ ४६ ॥
१४त्वक्पत्रमूलपुष्पस्य वरुणात्सत्रिकण्टकात् ।
कषायेण पचेत्तैलं बस्तिना स्थापनेन च ।
शर्कराश्मरिशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ४७ ॥
150-b
१५शल्यवित्तामशाम्यन्तीं प्रत्याख्याय समुद्धरेत् ।
पायुक्षिप्ताङ्गुलीभ्यां तु गुदमेढ्रान्तरे गताम् ॥ ४८ ॥
सेवन्याः सव्यपार्श्वे च यवमात्रं विमुच्य तु ।
व्रणं कृत्वाश्मरीमात्रं कर्षेत्तां शस्त्रकर्मवित् ॥ ४९ ॥
भिन्ने तु बस्तौ दुर्ज्ञानान्मृत्युः स्यादश्मरीं विना ।
निःशेषामश्मरीं कुर्याद्बस्तौ रक्तं च निर्हरेत् ॥ ५० ॥
हृताश्मरीकदुष्णाम्भो गाहयेद्भोजयेच्च तम् ।
गुडं मूत्रविशुद्ध्यर्थं मध्वाज्याक्तव्रणं ततः ॥ ५१ ॥
दद्यात्साज्यां त्र्यहं पेयां साधितां मूत्रशोधिभिः ।
आदशाहं ततो दद्यात्पयसा मृदुनोदनम् ॥ ५२ ॥
स्वेदयेद्यवमध्वाढ्यं कषायैः क्षालयेद्व्रणम् ।
प्रपौण्डरीकमञ्जिष्ठायष्टिलोध्रैश्च लेपयेत् ॥ ५३ ॥
एतैश्च सलिलैः सिद्धं घृतमभ्यञ्जने हितम् ।
अप्रशान्ते तु सप्ताहाद्व्रणे दाहोऽपि चेष्यते ॥
दैवान्नाभ्यां तु या लग्ना तां विपाट्यापकर्षयेत् ॥ ५४ ॥