147-b
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ।
शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ॥ ५ ॥
अभयारग्वधफलैः क्वाथं कुर्याद्विचक्षणः ।
रामठक्षारलवणचूर्णं दत्वा पिबेन्नरः ॥ ६ ॥
अश्मरीमूत्रकृच्छ्रघ्नं पाचनं दीपनं परम् ।
हन्यात्कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥ ७ ॥
पाषाणभेदो वसुको वशिरोऽश्मन्तकं तथा ।
शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका ॥ ८ ॥
कपोतवक्त्रार्तगलकाञ्चनोशीरगुल्मकाः ।
वृक्षादनीभल्लुकश्च वरुणः शाकजं फलम् ॥ ९ ॥
यवाः कुलत्थाः कोलानि कतकस्य फलानि च ।
उषकादिप्रतीवापमेषां क्वाथे शृतं घृतम् ॥ १० ॥
भिनत्ति वातसम्भूतामश्मरीं क्षिप्रमेव तु ।
क्षारान्यवागूः पेयाश्च कषायाणि पयांसि च ।
भोजनानि च कुर्वीत वर्गेऽस्मिन्वातनाशने ॥ ११ ॥