161-a
नाराचमेतज्जठरामयानां
युक्तोपयुक्तं शमनं प्रदिष्टम् ॥ ६८ ॥

Adhikāra 37

यमानिकाचित्रकयावशूक-
षड्ग्रन्थिदन्तीमगधोद्भवानाम् ।
प्लीहानमेतद्विनिहन्ति चूर्ण-
मुष्णाम्बुना मस्तुसुरासवैर्वा ॥ १ ॥
पिप्पलीं किंशुकक्षारभावितां संप्रयोजयेत् ।
गुल्मप्लीहापहां वह्निदीपनीं च रसायनीम् ॥ २ ॥
विडङ्गाज्याग्निसिन्धूत्थशक्तून्दग्ध्वा वचान्वितान् ।
पिबेत्क्षीरेण संचूर्ण्य गुल्मप्लीहोदरापहम् ॥ ३ ॥
तालपुष्पभवः क्षारः सगुडः प्लीहनाशनः ।
क्षारं वा बिडकृष्णाभ्यां पूतीकस्याम्लनिः स्रुतम् ॥ ४ ॥
प्लीहयकृत्प्रशान्त्यर्थं पिबेत्प्रातर्यथाबलम् ।
पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः ॥ ५ ॥
पयसा वा प्रयोक्तव्याः पिप्पल्यः प्लीहशान्तये ।
भल्लातकाभयाजाजी गुडेन सह मोदकः ॥ ६ ॥
सप्तरात्रान्निहन्त्याशु प्लीहानमतिदारुणम् ।
शोभाञ्जनकनिर्यूहं सैन्धवाग्निकणान्वितम् ॥ ७ ॥
पलाशक्षारयुक्तं वा यवाक्षारं प्रयोजयेत् ।