20-b
कलिङ्गबिल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम् ।
लाक्षाहरिद्रे ह्रीवेरं कट्फलं शुक्रनासिकाम् ॥ १८ ॥
लोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकम् ।
पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान् ॥ १९ ॥
छायाशुष्कान्पिबेच्छीघ्रं ज्वरातीसारशान्तये ।
रक्तप्रसादनाश्चैते शूलातीसारनाशनाः ॥ २० ॥
उत्पलं दाडिम्बत्वक्च पद्मकेशरमेव च ।
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥ २१ ॥
व्योषं वत्सकबीजं च निम्बभूनिम्बमार्कवम् ।
चित्रकं रोहिणीं पाठां दार्वीमतिविषां समाम् ॥ २२ ॥
श्लक्ष्णचूर्णीकृतान्सर्वांस्तत्तुल्यां वत्सकत्वचम् ।
सर्वमेकत्र संयुज्य प्रपिबेत्तण्डुलाम्बुना ॥ २३ ॥
सक्षौद्रं वा लिहेदेतत्पाचनं ग्राहिभेषजम् ।
तृष्णारुचिप्रशमनं ज्वरातीसारनाशनम् ॥ २४ ॥
कामलां ग्रहणीदोषान् गुल्मं प्लीहानमेव च ।
प्रमेहं पाण्डुरोगं च श्वयथुं च विनाशयेत् ॥ २५ ॥