Adhikāra 39

168-a
गुग्गुलुं रुबुतैलं वा गोमूत्रेण पिबेन्नरः ।
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १ ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसम्भवम् ।
पुनर्नवायास्तैलं वा तैलं नारायणं तथा ॥ २ ॥
पाने बस्तौ रुरोस्तैलं पेयं वा दशकाम्भसा ।
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥ ३ ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ।
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥ ४ ॥
सर्वं पित्तहरं कार्यं रक्तजे रक्तमोक्षणम् ।
श्लेष्मवृद्धिं तूष्णवीर्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥ ५ ॥
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् ।
स्विन्नं मेदःसमुत्थं तु लेपयेत्सुरसादिना ॥ ६ ॥
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ।
संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥ ७ ॥
सीवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ।
शङ्खोपरि च कर्णान्ते त्यक्त्वा सीवनिमादहेत् ॥ ८ ॥
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धिनिवृत्तये ।
अङ्गुष्ठमध्ये त्वक् छित्त्वा दहेदङ्गविपर्यये ॥ ९ ॥
168-b
रास्नायष्ट्यामृतैरण्डबलागोक्षुरसाधितः ।
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुबुतैलेन मिश्रितः ॥ १० ॥
तैलमेरण्डजं पीत्वा बलासिद्धपयोऽन्वितम् ।
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥ ११ ॥
हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम् ।
प्रातः प्रातश्च सेवेत कफवातामयापहाम् ॥ १२ ॥
गोमूत्रसिद्धां रुबुतैलभृष्टां
हरीतकीं सैन्धवसंप्रयुक्ताम् ।
खादेन्नरः कोष्णजलानुपानां
निहति वृद्धिं चिरजां प्रवृद्धाम् ॥ १३ ॥
त्रिफलाक्वाथगोमूत्रं पिबेत्प्रातरतन्द्रितः ।
कफवातोद्भवं हन्ति श्वयथुं वृषणोत्थितम् ॥ १४ ॥
सरलागुरुकुष्ठानि देवदारुमहौषधम् ।
मूत्रारणालसंयुक्तं शोथघ्नं कफवातनुत् ॥ १५ ॥
भृष्टो रुबुकतैलेन कल्कः पथ्यासमुद्भवः ।
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥ १६ ॥
169-a
गव्यं घृतं सैन्धवसंप्रयुक्तं
शम्बूकभाण्डे निहितं प्रयत्नात् ।
सप्ताहमादित्यकरैर्विपक्वं
निहन्ति कूरण्डमतिप्रवृद्धम् ॥ १७ ॥
ऐन्द्रीमूलभवं चूर्णं रुबुतैलेन मर्दितम् ।
त्र्यहाद्गोपयसा पीतं सर्ववृद्धिनिवारणम् ॥ १८ ॥
रुद्रजटामूललिप्ता करटव्यङ्कचर्मणा ।
बद्धा वृद्धिः शमं याति चिरजापि न संशयः ॥ १९ ॥
निष्पिष्टमारणालेन रूपिकामूलवल्कलम् ।
लेपो वृद्ध्यामयं हन्ति बद्धमूलमपि दृढम् ॥ २० ॥
वचासर्षपकल्केन प्रलेपो वृद्धिनाशनः ।
लज्जागृध्रमलाभ्यां च लेपो वृद्धिहरः परः ॥ २१ ॥
169-b
मूलं बिल्वकपित्थयोररलुकस्याग्नेर्बृहत्योर्द्वयोः ।
श्यामापूतिकरञ्जशिग्रुकतरोर्विश्वौषधारुष्करम् ।
कृष्णाग्रन्थिकचव्यपञ्चलवणक्षाराजमोदान्वितं
पीतं काञ्जिककोष्णतोयमथितं चूर्णीकृतं ब्रध्ननुत् ॥ २२ ॥
अविक्षीरेण गोधूमकल्कं कुन्दुरुकस्य वा ।
प्रलेपनं सुखोष्णं स्याद्ब्रध्नशूलहरः परः ॥ २३ ॥
मृतमात्रे तु वै काके विशस्ते संप्रवेशयेत् ।
ब्रध्नं मुहूर्तं मेधावी तत्क्षणादरुजं भवेत् ॥ २४ ॥
अजाजी हपुषा कुष्टं गोधूमं बदराणि च ।
काञ्जिकेन समं पिष्ट्वा कुर्याद्ब्रध्नप्रलेपनम् ॥ २५ ॥
सैन्धवं मदनं कुष्टं शताह्वां निचुलं वचाम् ।
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥ २६ ॥
कट्फलं पौष्करं मेदां चविकं चित्रकं शठीम् ।
विडङ्गातिविषे श्यामां रेणुकां नलिनीं स्थिराम् ॥ २७ ॥
बिल्वाजमोदे कृष्णां च दन्तीरास्ने प्रपिष्य च ।
साध्यमेरण्डजं तैलं तैलं वातविकारनुत् ॥ २८ ॥
ब्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ।
आनाहमश्मरीं चैव हन्यात्तदनुवासनात् ।
घृतं सौरेश्वरं योज्यं ब्रध्नवृद्धिनिवृत्तये ॥ २९ ॥