183-b
२३मनःशिलाले मञ्जिष्ठा सलाक्षारजनीद्वयम् ।
प्रलेपः सघृतक्षौद्रस्त्वग्विशुद्धिकरः परः ॥ ९५ ॥
अयोरजः सकासीसं त्रिफलाकुसुमानि च ।
प्रलेपः कुरुते कार्ष्ण्यं सर्व एव नवत्वचि ॥ ९६ ॥
कालीयकलताम्रास्थिहेमकालारसोत्तमैः ।
लेपः सगोमयरसः सवर्णकरणः परः ॥ ९७ ॥
चतुष्पदां हि त्वग्रोमखुरशृङ्गास्थिभस्मना ।
तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ।
व्रणग्रन्थिं ग्रन्थिवच्च जयेत्क्षारेण वा भिषक् ॥ ९८ ॥

Adhikāra 44

नाडीनां गतिमन्विष्य शस्त्रेणापाट्य शास्त्रवित्
सर्वव्रणक्रमं कुर्याच्छोधनं रोपणादिकम् ॥ १ ॥
नाडीं वातकृतां साधुपाटितां लेपयेद्भिषक् ।
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ।
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशायुगैः ॥ २ ॥
श्लेष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ।
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ॥ ३ ॥