186-b
कासश्वासं तथा शोथमर्शांसि सभगन्दरम् ।
हृच्छूलं पार्श्वशूलं च कुक्षिबस्तिगुदे रुजम् ॥ १७ ॥
अश्मरीं मूत्रकृच्छ्रं च अत्रवृद्धिं तथा क्रिमीन् ।
चिरज्वरोपसृष्टानां क्षयोपहतचेतसाम् ॥ १८ ॥
आनाहं च तथोन्मादं कुष्ठानि चोदराणि च ।
नाडीदुष्टव्रणान्सर्वान्प्रमेहं श्लीपदं तथा ।
सप्तविंशतिको ह्येष सर्वरोगनिषूदनः ॥ १९ ॥
जम्बूकस्य च मांसानि भक्षयेद्व्यञ्जनादिभिः ।
अजीर्णवर्जी मासेन मुच्यते ना भगन्दरात् ॥ २० ॥
पञ्चतिक्तं घृतं शस्तं पञ्चतिक्तश्च गुग्गुलुः ।
न्यग्रोधादिगणो यस्तु हितः शोधनरोपणः ॥ २१ ॥
तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ।
चित्रकार्कौ त्रिवृत्पाठे मलपूहयमारकौ ॥ २२ ॥
सुधां वचां लाङ्गलिकीं हरितालं सुवर्चिकाम् ।
ज्योतिष्मतीं च संयोज्य तैलं धीरो विपाचयेत् ॥ २३ ॥
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे ।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥ २४ ॥