अथोद्भेदः—

अद्भेदो गूढभेदनम् ।

यथा रत्नावल्यां वत्सराजस्य कुसुमायुधव्यपदेशगूढस्य वैतालिकवचसा अस्तापास्त—195 इत्यादिना उदयनस्य— इत्यन्तेन बीजानुगुण्येनैवोद्भेदनादुद्भेदः ।

यथा च वेणीसंहारे— आर्य, किमिदानीमध्यवस्यति गुरुः । इत्युपक्रमे

नेपथ्ये
यत् सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद् विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता ।
तद् द्यूतारणिसंभृतं 196नृपवधूकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत् कुरुवने यौधिष्ठिरं जृम्भते ॥197
भीमः
श्रुत्वा सहर्षम्

जृम्भतां जृम्भतां संप्रत्यप्रतिहतप्रसरमार्यस्य198 क्रोधज्योतिः ।199

इत्यनेन छन्नस्य द्रौपदीकेशसंयमनहेतोर्युधिष्ठिरक्रोधबीजस्योद्भेदादुद्भेदः ।

27 अथ करणम्—

करणं प्रकृतारम्भो

यथा रत्नावल्याम्—

सागरिका

200201णमो दे कुसुमाउह, ता अमोहदंसणो मे होहि त्ति दिट्‏ठिआ202 दिट्ठं जं पेक्खिदव्वं । ता जाव ण को वि मं पेक्खइ ताव इदो गमिस्सं ।203

इत्यनेनान्तराङ्कप्रकृतनिर्विघ्नदर्शनारम्भणात् करणम् ।

यथा च वेणीसंहारे—

भीमः

तत् पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय ।

सहदेवः

आर्य, गच्छाम इदानीं गुरुजनानुज्ञाता 204विक्रममाचरितुम् ।205

इत्यनेनानन्तराङ्कप्रस्तूयमानसंग्रामारम्भकरणात्206 करणमिति । सर्वत्र 207चेहोद्देशप्रतिनिर्देशवैषम्यं क्रियाक्रमस्याविवक्षितत्वादिति ।

  1. १।२४↩
  2. N.S.P. nṛpasutā-.

    ↩
  3. १।२४↩
  4. N.S.P. omits prasaram, and reads in the remark as krodhasyodbhedaḥ.

    ↩
  5. पृ॰ २९↩
  6. N.S.P. omits Sāgarikā.

    ↩
  7. ‘नमस्ते कुसुमायुध, तदमोघदर्शनो मे भविष्यसीति दिष्ट्या दृष्टं यत् प्रेक्षितव्यम् । तद्यावन्न कोऽपि मां प्रेक्षते तावदितो गमिष्यामि ।’ इति च्छाया.

    ↩
  8. N.S.P. omits diṭṭhiā, and reads bhavissasi for hohi.

    ↩
  9. पृ॰ ३८↩
  10. N.S.P. vikramānurūpam.

    ↩
  11. पृ॰ ३१↩
  12. N.S.P. ārambhaṇāt karaṇam iti.

    ↩
  13. See my paper on the Daśarūpaka, in The Journal of the University of Gauhati, 1960, for a discussion on this line.

    ↩