नन्वङ्गिनि सति तेनैवालम् । किमङ्गैः । तत्राह इष्टस्येति । विवृणोति विवक्षितार्थेति । अङ्गिना एकेनैव बहूनि परस्परविरुद्धानि च प्रयोजनानि संपादयितुं न शक्यन्ते । तस्माद् बहूनामेव तदङ्गानां बहुविधप्रयोजनसंपादकत्वात् सप्रयोजनत्वमिति । अभिनयरागवृद्धिरिति । अभिनयदर्शनेन सामाजिकानां कुतूहलवृद्धिरित्यर्थः । आश्चर्यमित्यस्य विवरणं काव्यस्य चमत्कारित्वमिति ।
पुनर्वस्तुविभागमाह—
कीदृक् सूच्यं, कीदृग् दृश्यश्राव्यमित्याह—
पूर्वं वस्तुनः प्रख्यातोत्पाद्यत्वादिविभागप्रदर्शनक्रमेण साङ्गाः संधय उक्ताः । पुनस्तस्यैव विभागमाहेति दर्शयति पुनर्वस्तुविभागमाहेति । सर्वस्यापीति । न केवलमाधिकारिकस्य प्रासङ्गिकात्मनोऽपीत्यर्थः । सूच्यमेवेति । न 445कदाचित् तस्याङ्कप्रवेश इत्यर्थः । किंचित् सूच्यमेव । अपरम्=असूच्यम् । दृश्यं च श्राव्यं च दृश्यश्राव्यम् । एवं च वस्तु सूच्यासूच्यात्मना द्विविधम् । असूच्यं तु पुनर्द्विविधं दृश्यं श्राव्यं च । तेन फलतो वस्तुनः सूच्यं दृश्यं श्राव्यमिति त्रैविध्यं निष्पन्नमिति ।
सूच्यस्य प्रतिपादनप्रकारमाह—
-
In T.MS. and M.G.T. na is missing.
↩