12 निरुक्त्येति । निर्वचनेन सह आधिकारिकस्य लक्षणं कथयतीत्यर्थः । ननु कारिकायां फलस्वाम्यं तच्छब्देन परामृश्यते । तच्चानुचितमिव प्रतिभाति । तेनाह फलेन स्वस्वामिसंबन्ध इति । फलेन सह स्वस्वामिलक्षणसंबन्धोऽधिकारः । संबन्धो हि गुणप्रधानयोरेव भवति । फलभोक्तुर्गुणभावः कदाचिदपि मा भूदिति तत्प्रभुरित्युक्तमित्याह फलस्वामी चाधिकारीति । फलपर्यन्ततां नीयमानमिति प्रत्ययार्थं निर्वृत्तं विशिनष्टि । कारिकायां निर्वर्त्यमित्यन्तेन निरुक्तकथनम् । अभिव्यापीति लक्षणकथनम् । अयं च निरुक्तक्रमः । अधिकारोऽस्यास्तीति अधिकारी । तस्मादधिकारिशब्दात् ठकि ‘यस्येति च’ इतीकारलोपे वृद्धौ च कृतायामाधिकारिकमिति रूपं भवति ।
प्रासङ्गिकं निर्व्याचष्टे100—
यस्येतिवृत्तस्य परप्रयोजनस्य सतस्तत्प्रसङ्गात् स्वप्रयोजनसिद्धिः तत् प्रासङ्गिकमितिवृत्तम् । प्रसङ्गनिर्वृत्तेः प्रासङ्गिकम् ।
प्रासङ्गिकस्य लक्षणकथनपूर्वकं निर्वचनं दर्शयतीत्याह प्रासङ्गिकं निर्व्याचष्ट इति । तस्य लक्षणोक्तिं विवृणोति यस्येतिवृत्तस्येति । शब्दनिर्वचनं101 दर्शयति प्रसङ्गनिर्वृत्तेः प्रासङ्गिकमिति ।
प्रासङ्गिकमपि पताका-प्रकरीभेदाद् द्विविधमित्याह—
दूरं यदनुवर्तते प्रासङ्गकं सा पताका, सुग्रीवादिवृत्तान्तवत् । पताकेवासाधारणनायकचिह्नवत् तदुपकारित्वात् । यदल्पं = 103दूरं नानुवर्तते सा प्रकरी, श्रावणादिवृत्तान्तवत् ।