122 स्पष्टम् । एवं तत्तत्कार्यान्तरेषु सहायान्तराणि योज्यानि । यदाह—
शकारः=राज्ञः श्यालो हीनजातिः ।
विशेषान्तरमाह—
एवं प्रागुक्तानां नायकनायिकादूतदूतीमन्त्रिपुरोहितादीनामुत्तममध्यमाधमभावेन त्रिरूपता । उत्तमादिभावश्च न गुणसंख्योपचयापचयेन किं तर्हि गुणातिशयतारतम्येन ।
उत्तमादिभावश्चेति । यदि हि गुणसंख्योपचयापचयभावेन उत्तमादिभावो भवेत् तर्हि सर्वेषां नायकानां न भवेत् । अनुनायकादिभावो हि गुणसंख्यापचयेनैव । ततो गुणाद्यतिशयतारतम्येनैव उत्तमादिभाव इत्यर्थः ।
उक्तो नायकः, तद्व्यापारस्तूच्यते—