चतुथः प्रकाशः
अथेदानीं 790रसभेदः प्रदर्श्यते—
वक्ष्यमाणस्वभावैर्विभावानुभावव्यभिचारिसात्त्विकैः काव्योपात्तैरभिनयोपदर्शितैर्वा श्रोतृप्रेक्षकाणामन्तर्विपरिवर्तमानो रत्यादिर्वक्ष्यमाणलक्षणः स्थायी स्वादगोचरतां निर्भरानन्दसंविदात्मतामानीयमानो रसः । तेन रसिकाः सामाजिकाः । काव्यं तु तथाविधानन्दसंविदुन्मीलनहेतुभावेन रसवत् । आयुर्घृतम् इत्यादिव्यपदेशवत् ।
चतुर्थः परिच्छेदः
167 क्रमप्राप्तमपि 791पूर्वं रसवचनमतिलङ्घ्य नाटकादिषु वस्तुनेतृरसानामुपयोगः प्रतिपादितः । अथेदानीं तत्परिसमाप्तौ लब्धावसरतया स एव रसभेदः प्रतिपाद्यत इत्याह अथेति । वक्ष्यमाणस्वभावैरिति । वक्ष्यते हि विभावादीनां स्वभावः । तमिदानीं सिद्धं कृत्वा रसेषु तेषां कश्चित् प्रकारः कथ्यत इति । काव्योपात्तैरिति । द्विविधो हि प्रबन्धः श्राव्योऽभिनेयश्च तत्र श्राव्यापेक्षया । श्रोतॄणामिति अभिनेयापेक्षया च प्रेक्षकाणामिति । स्वादगोचरतामिति । स्वाद्यो हि स्वादुर्भवति । स्वादश्च आत्मानन्दाभिव्यक्तिः । वक्ष्यति हि ‘स्वादः काव्याथसंभेदादात्मानन्दसमुद्भवः’ इति 792 । ततश्च विभावादिभिः स्थायिभावो रत्यादिः स्वादगोचरताम् आनन्दरूपतामानीयते । तेनासौ स्वादुर्भवति । स्थायित्वं च भावस्य प्रत्ययविशेषात्मनः संस्कारद्वारेणेति ।168 स्वादौचित्येन तद्गोचरस्य स्वरूपमाह793 निर्भरानन्दसंविदात्मतामिति । निरतिशयत्वं निर्भरत्वम् । तदेव च परमत्वम् । तेन परमानन्दसंविदात्मतामित्यर्थः । एकमेव हि वस्तु खपुष्पादिव्यावृत्त्या, दुःखव्यावृत्त्या, जडव्यावृत्त्या च, सत्त्वेन, सुखत्वेन, अनुभवत्वेन चाख्यायते794 । तेन स्वादस्य विषयोऽपि तथाविधः पदार्थः । स एव च तैस्तैरुपाधिभिस्तारतम्येन सर्वत्राभिव्यज्यमानो रसः । श्रूयते हि ‘रसो वै सः’795 । रसं ह्येवायं लब्ध्वानन्दी भवति’ इति 796 । ततश्च काव्येऽपि स एव रसशब्दवाच्य इति । रसभाजो हि रसिकाः, त एव सामाजिका इति रामादय एव रसभाज इति वदन्तं प्रत्युक्तम् । तर्हि रसवत काव्यमिति कथं काव्यस्य रसवत्ताव्यपदेशः ? तत्राह काव्यं त्विति । 797दृष्टश्च तद्धेतावपि तत्त्वेन व्यपदेश इत्याह आयुरिति ।
-
A.T.A. reads rasabhāvāḥ pratipādyante.
↩ -
T.MS. reads kramaprāptaṃ pūrvaṃ rasam atilaṅghya. All other MSS. have rasavacanam. Gr.MS. is corrupt in other expressions here.
↩ - (४।४३)↩
-
M.G.T. alone reads svādaucityena tadgocarasvabhāvam āha. All others give it as tadgocarasya svarūpam āha. (This shows that Tri.MS. and M.G.T. are not copies from the same MS., although in some places they seem to have identical readings.)
Jagannātha quotes the Vedic text raso vai saḥ; rasaṃ hy evāyaṃ labdhvānandῑ bhavati, in the course of his discussion about the kāvyarasa. Viśveśvara, the author of the Camatkāracandrikā and protégé of Śiṅgabhūpāla (about A.D. 1330), is said to be the earliest known writer (see Annals of BORI., vol. 16, p. 134) to exploit the Upaniṣadic text raso vai saḥ in connection with kāvyarasa. This text is quoted also by Bh.Nṛ. But there is this difference that Viśveśvara quotes it while talking about the kāvyarasa as brahmasamakakṣayā prokto rasaḥ, and Jagannātha too quoting these lines says: asyāṃ (rasacarvaṇāyāṃ) sukhāṃśabhāne raso vai saḥ, rasaṃ hy evāyaṃ labdhvānandī bhavati iti śrutiḥ, sakalasahṛdayapratyakṣaṃ ceti pramāṇadvayam.
Thus Jagannātha brings in these Vedic lines as a śabdapramāṇa to prove the sukhāṃśa of the kāvyarasacarvaṇā. Bh.Nṛ. quotes the Upaniṣadic lines to corroborate the point that ānanda in the kāvya is rasaśabdavācya, as it was so seen in the śruti (tatas ca kāvye ’pi sa [ānandaḥ] eva rasaśabdavācya iti—L.Ṭ., p. 168). By quoting these he simply shows that in the kāvya, rasa means nothing but ānanda. This is not cited by him as a śabdapramāṇa, like Jagannātha, or to say (like Viśveśvara) brahmasamakakṣayā prokto rasaḥ. If it can be proved that Bh.Nṛ. was earlier than Śiṅgabhūpāla (see the Introduction) then Bh.Nṛ. would be the earliest known writer to quote these Vedic lines in connection with the kāvyarasa. See the Introduction.
↩ -
Only M.G.T. gives (anubhavatvena ca) khyāyate. All others give ākhyāyate. duḥkhavyāvṛttyā and anubhavatvena ca are missing in T.MS., and jaḍavyāvṛttyā is missing in Tri.MS.
↩ -
śrūyate hi raso vai saḥ (Taittirīyopaniṣad, II. 6.1) is missing in M.G.T. What is given in the text is the reading in all others.
↩ - (तैत्तिरीयोपनिषत् २।६।१)↩
-
Only M.G.T. reads dṛśyate instead of dṛṣṭaś ca.
↩