189 यथा कुमारसंभवे—

तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥871

यथा चोत्तररामचरिते—

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥872

अथ मतिः—

भ्रान्तिच्छेदोपदेशाभ्यां शास्त्रादेस्तत्त्वधीर्मतिः ।

यथा किराते—

सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥873

यथा च—

न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम् ।
तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥

अथालस्यम्—

आलस्यं श्रमगर्भादेर्जैह्म्यजृम्भासितादिमत् ॥ २७ ॥

यथा ममैव—

चलति कथंचित् पृष्टा यच्छति वचनं कथंचिदालीनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥

अथावेगः—

आवेगः संभ्रमोऽस्मिन्नभिमरजनिते874शस्त्रणागाभियोगो वातात् पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः ।
उत्पातात् स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनु भयस्तम्भकम्पापसाराः ॥ २८ ॥

875अभिमरः=राजकलहादिः, तद्धेतुरावेगः । यथा ममैव—

आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
876संरम्भोन्निष्ठितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नाथ स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥
इत्यादि । 877
तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः ।
इति शुश्रुविरे विष्वगुद्भटाः सुभटोक्तयः ॥

यथा वा—

प्रारब्धां तरुपुत्रकेषु सहसा संत्यज्य सेकक्रिया- मेतास्तापसकन्यकाः किमिदमित्यालोकयन्त्याकुलाः ।
आरोहन्त्युटजद्रुमांश्च वटवो वाचंयमा अप्यमी सद्यो मुक्तसमाधयो निजबृसीप्वेवोच्चपादं स्थिताः ॥

वातावेगो यथा—वाताहतं वसनमाकुलमुत्तरीयम् इत्यादि ।

वर्षजो यथा—

देवे 878वर्षत्यशनपचनव्यापृता वह्निहेतो- र्गेहाद् गेहं फलकनिचितैः सेतुभिः पङ्कभीताः ।

  1. ३।७३↩
  2. १।३५↩
  3. २।३०↩
  4. abhimara is the reading in A.T.A. and in B.M.’s, who explains it thus: abhimaraḥ = śatruśastra-prahāraḥ, and Karijam anuasdviradajanitam āveśam anu = paścāt bhayādayo ’nubhāvā bhavanti. N.S.P. reads abhisara.

    ↩
  5. N.S.P. abhisaraḥ = rājavidravādiḥ. Of the following yathā mamaiva, mamaiva is missing in A.T.A.

    ↩
  6. N.S.P. saṃrambhonnidritānām for saṃrambhonniṣṭhitānām, and vādaḥ for nātha.

    ↩
  7. The verse tanutrāṇam tanutrāṇam is missing in A.T.A.

    ↩
  8. N.S.P. pavana and nīdhra for pacana and nimna.

    ↩