195 अथौत्सुक्यम्—

कालाक्षमत्वमौत्सुक्यं रम्येच्छारतिसंभ्रमैः ।
893तत्रोच्छ्वासत्वनिःश्वासहृत्तापस्वेदविभ्रमाः ॥ ३२ ॥

यथा कुमारसंभवे—

आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥894

यथा895 वा तत्रैव—

पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥896

  1. ‘तत्रोच्छ्वासत्वरा’ इति पाठः

  2. ७ । २२
  3. A.T.A. omits yathā vā tatraiva paśupatir api, etc.

  4. ६ । ९५