201 वीरमेव पुष्णाति । एवम् मात्सर्यम् इत्यादावपि चिरप्रवृत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वम् आर्याः समर्यादम् इत्यादिना प्रकाशितमेव । एवम् इयं सा लोलाक्षी इत्यादावपि रावणस्य प्रतिनायकतया निशाचरत्वेन मायाप्रधानतया च 948रौद्रव्यभिचारिभाववितर्कहेतुतया च रतिक्रोधयोरुपादानं रौद्रपरमेव । अन्त्रैः कल्पितमङ्गलप्रतिसराः इत्यादौ 949बीभत्सैक- परत्वमेव । एकं ध्याननिमीलनात् इत्यादौ शंभोर्भावान्तरैरनाक्षिप्ततया शमस्थस्यापि 950योग्यन्तरसमाधिवैलक्षण्यप्रतिपादनेन शमैकपरतैव समाधिसमये इत्यनेन स्फुटीकृता । एकेनाक्ष्णा इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम् ।

यत्र तु श्लेषादिवाक्येष्वनेकतात्पर्यमपि तत्र वाक्यार्थभेदेन स्वतन्त्रतया चार्थद्वयपरतेत्यदोषः । यथा— 951

श्लाध्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजित- त्रैलोक्यां चरणारविन्दललितेनाक्रान्तलोको हरिः ।
बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात् ॥
इत्यादौ । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोधः । यथा वा श्रूयमाणरत्यादिपदेष्वपि वाक्येषु तत्रैव तात्पर्यं तथाग्रे दर्शयिष्यामः ।

ननु अङ्गतया 952खलु विरोधः परिहृतः । अङ्गत्वरहितानामप्यनेकेषामेकाश्रयत्वेनान्यतात्पर्यविधुराणामपि दर्शनात् स कथं परिह्रियत इति चोदयति नन्वित्यादिना । एतेष्वप्येकत्रैव तात्पर्यं कथयन् परिहरति अत्रोच्यत इति । एक्कतो रुअइ पिआ इत्यादाविति । अत्र खलु वीरो रसः । तदारम्भकस्थायी उत्साहः । स तु विभावानुभावव्यभिचारिसंयोगेन हि रसीभवति । तस्योत्साहस्य व्यभिचारिभावो यो वितर्कः सः अनवधारणात्मकत्वात् कोटिद्वयावलम्बिना संदेहेनैव समुत्पद्यते । तस्य संदेहस्योत्पादकतया

  1. N.S.P. and H.K.A. read raudravyabhicāriviṣādavibhāvavitarkahetutayā.

  2. N.S.P. and H.K.A. read hāsyarasaikaparatvam eva. But Dhanika himself posing the question with reference to this verse mentions ratijugupsayoḥ (where there is no reference to hāsa) which is also reproduced by Hemacandra. Pūrṇasarasvatī commeeting on this verse has a different view (and he also does not mention hāsa or hāsya). His remarks are:

    svayaṃ śṛṅgāritvāt teṣāṃ bībhatsarasam api śṛṅgāratvenābhimanyamānaś camatkaroti, etc. and again at the end atrāntrādipadānāṃ jugupsādyotakānām api maṅgalapratisarādipadair antarānītair aślīlatvaṃ parihṛtam. śṛṅgāriṇo hi jagad api śṛṅgāramayaṃ paśyantīti guṇatvena, viśrānter iti bhojaḥ. atra śṛṅgāraḥ pratīyate. (Though he is thus laying stress on rati instead of jugupsā like Dhanika, he too does not mention hāsyarasaikaparatvam.)

  3. N.S.P. and Hemacandra yogyantaraśamād vailakṣaṇya-, etc.

  4. In A.T.A. ślāghyāśeṣatanum, etc. is missing, and instead subhru tvaṃ kupitetyādau is found.

  5. khalu is missing in T.MS.