200 इत्यादौ रतिक्रोधयोः,

अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः 939पिनह्य सहसा द्राक् पुण्डरीकस्रजः ।
एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब- न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥940
इत्यादावेकाश्रयत्वेन रतिजुगुप्सयोः
एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् ।
अन्यद् दूरनिकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥
इत्यादौ शमरतिक्रोधानाम्,
एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं भानोर्बिम्बं 941सलिललुलितेनापरेणात्मकान्तम् ।
अह्नश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥
इत्यादौ 942शोकक्रोधयोः समप्राधान्येनोपनिबन्धः 943तत्र कथं न विरोधः ? अत्रोच्यते—तत्राप्येक एव स्थायी । तथा हि—एक्कत्तो रुअइ पिआ इत्यादौ 944थायिभूतोत्साहस्य व्यभिचारिवितर्कलक्षणहेतुसंदेहकारणतया 945करुणसंग्रामतूर्ययोरुपादानं वीरमेव पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकत्रभावो946 युज्यते । किं च संग्रामोपक्रमे947सुभटानां कार्यान्तरकरणे प्रस्तुतसंग्रामौदासीन्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेव प्रकाशयन् प्रियतमाकरुणो

  1. N.S.P. pinaddhaśirasā.

  2. मालती॰ ५ । १८
  3. N.S.P. sajalalulitena. This verse is attributed to Candraka in Subhāṣitāvalī. This is also found in Hanumannāṭaka (XII. 17) with the reading as raudrakāruṇyasaṃjñau instead of nartakīva pragalbhā.

  4. N.S.P. and H.K.A. read ratiśokakrodhānām. But dvau racayati rasau in the verse is clear in all the texts.

  5. N.S.P. tat kathaṃ na virodhaḥ?

  6. N.S.P. -sthāyibhūtotsāhavyabhicārilakṣaṇavitarkabhāvahetusaṃdehakāraṇatayā.

  7. A.T.A. rodanasaṃgrāma-, etc. in place of karuṇasaṃgrāma-.

  8. N.S.P. ekavākyābhāvo.

  9. N.S.P. upakrānte saṃgrāme instead of saṃgrāmopakrame, and kāryāntarakaraṇena instead of -karaṇe.