ते च—
इह शान्तरसं प्रति वादिनामनेकविधा विप्रतिपत्तयः । तत्र केचिदाहुः—नास्त्येव शान्तो रसः । तस्याचार्येण विभावाद्यप्रतिपादनाल्लक्षणाकरणाच्च । अन्ये तु वस्तुतस्तस्याभावं वर्णयन्ति । अनादिकालप्रवाहायातरागद्वेषयोरुच्छेत्तुमशक्यत्वात् । अन्ये तु वीरबीभत्सादावन्तर्भावं वर्णयन्ति । एवं वदन्तः शममपि नेच्छन्ति । यथा तथास्तु । सर्वथा नाटकादावभिनयात्मनि स्थायित्वमस्माभिः शमस्य 961नेष्यते । तस्य समस्तव्यापारप्रविलयरूपस्याभिनयायोगात् ।
203 अन्ये तु वस्तुतस्तस्येति । भवतु नाम स्वरूपेण शान्तिः । तस्य स्वादात्मकत्वं न विद्यत इति पूर्वेषां पक्षः । अन्येषां तु तत्स्वरूपमेव नास्तीति । अन्ये तु वीरबीभत्सादाविति । यथा वीरो जीमूतवाहनः सर्वत्र कृपापरवशतया तेषां गुणदोषौ प्रति शान्तः । यथा च बीभत्सुस्तांस्तान् कुणपादीन् धिगित्यवजानन् सर्वतो व्यावृत्तः शान्त इति ।
-
N.S.P. niṣidhyate.
↩