212 गीतादिवत् सुखजनकत्वेऽपि वाच्यवाचकभावानुपयोगः । विशिष्टविभावादिसामग्रीविदुषामेव तथाविधरत्यादिभावनावतामेव स्वादोद्भूतेः । तदनेनातिप्रसङ्गोऽपि निरस्तः । ईदृशे च वाक्यार्थनिरूपणे परिकल्पिताभिधादिशक्तिवशेनैव समस्तवाक्यार्थावगतेः शक्त्यन्तरपरिकल्पनं प्रयासः । यथावोचाम1014 काव्यनिर्णये—

1015तात्पर्यान्तरिते वाक्ये व्यञ्जकत्वं न च ध्वनिः ।
किमुक्तं स्यादश्रुतार्थतात्पर्येऽन्योक्तिरूपिणि ॥
विषं भक्षय पूर्वोऽयं समौ तत्परतादिषु ।
प्रसज्यते प्रधानत्वाद् ध्वनित्वं केन वार्यते ॥
ध्वनिश्चेत् स्वार्थविश्रान्तं वाक्यमर्थान्तराश्रयम् ।
तत्परत्वं त्वविश्रान्तौ तत्र विश्रान्त्यसंभवात् ॥
एतावतैव विश्रान्तिस्तात्पर्यस्येति किं कृतम् ।
यावत्कार्यप्रसारित्वात् तात्पर्यं न तुलाधृतम् ॥
भ्रमधार्मिकविश्रब्धमिति भ्रमिकृतास्पदम् ।
निर्व्यापृति कथं वाक्यं निषेधमुपसर्पति ॥
प्रतिपाद्यस्य विश्रान्तिरपेक्षापूरणाद् यदि ।
वक्तुर्विवक्षिताप्राप्तेरविश्रान्तिर्न वा कथम् ॥
पौरुषेयस्य वाक्यस्य विवक्षापरतन्त्रता ।
वक्त्रभिप्रेततात्पर्यमतः काव्यस्य युज्यते ॥
इति ।

अतो न रसादीनां काव्येन सह व्यङ्ग्यव्यञ्जकभावः । किं तर्हि ? भाव्यभावकसंबन्धः । काव्यं हि भावकम् । भाव्यास्तु रसादयः । ते हि स्वतोऽभवन्त एव भावकेषु विशिष्टविभावादिमता काव्येन भाव्यन्ते । न चान्यत्र

  1. A.T.A. seems to read here vakṣyāmaḥ instead of avocāma.

  2. See Laghuṭīkā and the notes in the context, and the Introduction.