213 शब्दान्तरेषु भाव्यभावकलक्षणसंबन्धाभावात् काव्यशब्देष्वपि तथा भाव्यमिति वाच्यम् । भावनाक्रियावादिभिस्तथाङ्गीकृतत्वात् । किं च मा वान्यत्र तथास्तु । अन्वयव्यतिरेकाभ्यामिह तथावगमात् । तदुक्तम्—

भावाभिनयसंपन्नान्1016 भावयन्ति रसानिमान् ।
यस्मात् तस्मादमी भावा विज्ञेया नाट्ययोक्तृभिः ॥1017
इति ।

कथं पुनरगृहीतसंबन्धेभ्यः शब्देभ्यः स्थाय्यादिप्रतिपत्तिरिति चेत्, लोके तथाविधचेष्टायुक्तस्त्रीपुंसादिषु रत्याद्यविनाभावदर्शनादिहापि तथोपनिबन्धे सति रत्याद्यविनाभूतचेष्टादिप्रतिपादकशब्दश्रवणादभिधेयाविनाभावेन लाक्षणिकी रत्यादिप्रतिपत्तिः1018 । यथा च काव्यार्थस्य रसभावकत्वं तथाग्रे वक्ष्यामः ।

तमिमं पक्षं निराकारोति अत्रोच्यत इति । वाच्येति । द्विधा हि संनिधिः । निरन्तरपाठेन बुद्धिस्थितिर्वा प्रकरणादिभ्यो वा । अन्यतरन्यायेन बुद्धिस्थिता क्रिया यथा कारकैर्युक्ता वाक्यार्थस्तथेतरैर्विभावादिभिर्युक्तः स्थायी भावो रत्यादिर्वाक्यार्थो भवतीत्यर्थः । तथैव व्याचष्टे यथेत्यादिना । द्वारं द्वारमित्यादिष्विति । तत्र ह्यश्रुतापि क्रिया प्रकरणादिवशाद् विव्रियतां संव्रियतामित्यध्याहृता बुद्धिसंनिवेशिनी वाक्यार्थो भवति । तथा काव्येष्वपि ‘प्रीत्यै नवोढा प्रिया’1019 1020 इत्यादौ स्वशब्दोपादानात्=स्वेन वाचकशब्देनोपादानं यस्य तत् स्वशब्दोपादानं तस्मात्, क्वचित् तद्विरहेऽपि प्रकरणादिवशात् संनिहितविभावाद्युपादानाद्वा भावकचेतसि विपरिवर्तमानः स्थायी भावः स्वस्वविभावादिसंयोगात् परां प्रौढिमानीयमानो वाक्यार्थो भवति । प्रौढिगमनप्रकारकथनं संस्कारपरंपरयेति । विभावैः कश्चित् संस्कार उपनीयते । कश्चिदनुभावैः कश्चित् सात्त्विकैः । कश्चिद् व्यभिचारिभिरिति परंपरा । तदिदमाह तथेत्यादिना । ननु चेतरैः पदार्थैर्विशिष्टः कश्चित् पदार्थ

  1. N.S.P. saṃbandhān.

  2. ना॰ शा॰ [GOS] ६।३४
  3. N.S.P. pratītiḥ.

  4. The following is the complete verse:

    dṛṣṭā dṛṣṭim adho dadhāti, kurute nālāpam ābhāṣitā śayyāyāṃ parivṛtya tiṣṭhati balād āliṅgitā vepate |
    niryāntīṣu sakhīṣu vāsabhavanān nirgantum evehate jātā vāmatayaiva me ’dya sutarāṃ prītyai navoḍhā priyā ||
    (Nāgānanda, III.4)

  5. (नागा॰ ३।४)