214 एव हि वाक्यार्थो भवति । रसस्तु कस्य पदस्यार्थः, येन वाक्यार्थो भवेत् । तत्राह न चेति । हेतुमाह कार्येति । पौरुषेयमिति । आपाततस्तथा प्रतिभासाभावेऽपि सर्वं पौरुषेयमपौरुषेयं वा वाक्यं कार्यपरमेव । अतत्परत्वे सति उन्मत्तवाक्यवदनुपादेयत्वप्रसङ्गादित्यर्थः । काव्यशब्देष्वन्वयव्यतिरेकाभ्यां किंचित् कार्यं नावगम्यत इति चेत् तत्राह काव्यशब्दानां चेति । प्रतिपाद्यप्रतिपादकयोरिति । यः प्रतिपाद्यः पुरुषो यश्च तत्प्रतिपादकः, उभयोरपि 1021प्रवृत्तिविषयगतस्य प्रयोजनान्तरस्य नावगतेरिति । यदि प्रयोजनान्तरं नावगम्यते तर्हि किं क्रियतामित्यत्राह काव्यशब्दानां चेति1022 । यदि सर्वथान्विष्यमाणं प्रयोजनं न लभ्येत तर्हि नास्तीति निश्चीयते । लभ्यते तु काव्यशब्दानां परमानन्दास्वादः प्रयोजनम् । अतः काव्यानि प्रयोजनरहिततया न निश्चीयन्त इत्यर्थः । ननु विभावादिप्रतिपादकानां वाक्यानां विभावादिरेव वाक्यार्थः । अतः कथं रसस्य वाक्यार्थत्वम् । तत्राह तदुद्भूतिनिमित्तत्वं चेति । विभावादिप्रतिपादकानामपि वाक्यानां रसोद्देशेन प्रयुक्तानां पदार्थस्थानीयविभावादिप्रतिपादनमवान्तरव्यापारीकृत्य रसपरत्वमेव भवतीत्यर्थः । तदेतत् काव्यं वाक्यपदीयमिति1023 । रसप्रतिपादकं काव्यमुद्देश्यतया वाक्यार्थीभूतरसप्रतिपादकतया वाक्यं भवति । रसं प्रति पदार्थीभूतविभावादिप्रतिपादकतया पदमपि भवति । तेन काव्यं वाक्यस्थानीयं पदस्थानीयं चेत्यर्थः । ननु काव्यं चेद् रसोत्पादकं तर्हि काव्यश्राविणां गीतादिश्राविणामिव तिरश्चामपि रसोत्पत्तिप्रसङ्गः । तत्राह न चैवं सतीति । विशिष्टविभावादीति1024 । अत्र यथा सहृदयानामेव रसप्रतिपत्तिर्भवति तादृशं विशेषमभिप्रैति । ननु रसप्रतीतिं प्रति कारणं पदार्थीभूतविभावादिप्रतिपत्तिरति1025 चेत् तर्हि विभावादिसंसृष्टस्थायिभावभावनातः पूर्वमपि रसोत्पत्तिप्रसङ्गः । तत्राह तथाविधरत्यादिभावनावतामेवेति । एवं तदनन्तरमेव रसोत्पत्तिरिति चेत् तर्हि श्रोत्रियाणामपि रसोत्पत्तिप्रसङ्गः । तत्राह तदनेनातिप्रसङ्गोऽपि निरस्त इति । तेषां तथाविधरत्यादिभावनारहितत्वादिति भावः । ईदृशे चेति । उद्देश्यतया रस एव वाक्यार्थ इति यादृशमेतन्निरूपणम्, ईदृशे च निरूपणे सति लौकिकवाक्यपरिकल्पितशक्तिभ्यः

  1. M.G.T. alone reads pravṛttiviśeṣagatasya.

  2. In N.S.P. and A.T.A kāvyaśabdānāṃ ca is found (in the Avaloka) only once in connection with the previous pratīka. All MSS. of the Laghuṭīkā give this twice. Perhaps according to Bh.Nṛ. this was a separate sentence running as kāvyśabdānāṃ ca svānandodbhūtir eva kāryatvenāvadhāryate.

  3. Here Dhanika seems to apply ingeniously the expression of the well-known work of Bhartṛhari to the kāvya. The significance is explained well by Bh.Nṛ. the commentator. Previous editions do not show this word in the Avaloka. But A.T.A. gives it very clearly. Perhaps Dhanika had admiration for the Vākyapadīya from which he cited, as an authority, a kārikā under IV.2.

  4. The MSS. in this place are corrupt. Only M.G.T. reads viśṣṭavibhāvād ity atra yathā sahṛdayānām eva rasapratipattir bhavati tādṛśam viśeṣam abhipraiti, and before that evaṃ ca sati (instead of na caivaṃ sati) which is not found either in printed texts or in A.T.A. Subsequently some fragmentary expressions are found in T.MS. and Gr.MS. together with a blank space here and there on the line. The line given here is my own surmise.

  5. T.MS. gives only from here. The preceding portion within square brackets is reconstructed by me on the basis of the fragmentary expressions available.