217
रसः स एव स्वाद्यत्वाद् रसिकस्यैव वर्तनात् ।
नानुकार्यस्य वृत्तत्वात् काव्यस्यातत्परत्वतः ॥ ३८ ॥
द्रष्टुः प्रतीतिव्रीडेर्ष्यारागद्वेषप्रङ्गतः ।
लौकिकस्य स्वरमणीसंयुक्तस्येव दर्शनात् ॥ ३९ ॥

काव्यार्थोपप्लावितो रसिकवर्ती रत्यादिः स्थायी भावः स इति निर्दिश्यते । स च स्वाद्यतां निर्भेरानन्दसंविदात्मतामापाद्यमानो रसः । रसिकवर्ती वर्तमानत्वात्; नानुकार्यरामादिवर्ती वृत्तत्वात्तस्य । अथ शब्दोपहितरूपत्वेनावर्तमानस्यापि वर्तमानवदवभासनमुच्यते । तथापि तदवभासस्यास्मदादिभिरनुभूयमानत्वादसत्समतैव स्वादं प्रति । विभावत्वेन तु रामादेर्वर्तमानवदवभासनमिष्यत एव । किं च न काव्यं रामादीनां रसोपजननाय कविभिः प्रवर्त्यते । अपि तु सहृदयानानन्दयितुम् । स च समस्तभावकस्वसंवेद्य एव । यदि चानुकार्यस्य रामादेः शृङ्गारः स्यात् ततो नाटकादौ तद्दर्शने लौकिक इव नायके शृङ्गारिणि स्वकान्तासंयुक्ते दृस्यमाने शृङ्गारवानयमिति प्रेक्षकाणां प्रतीतिमात्रं भवेत्, न 1041रसिकानां स्वादः । सत्पुरुषाणां च लज्जेतरेषां त्वसूयानुरागापहारेच्छादयः प्रसज्येरन् । एवं च सति रसादीनां व्यङ्ग्यत्वमपास्तम् । अन्यतो लब्धसत्ताकं वस्त्वन्येनाभिव्यज्यते । प्रदीपेनेव घटादि । न तु तदानीमेवाभिव्यञ्जकत्वाभि- मतैरापाद्यस्वभावम् । भाव्यन्ते च विभावादिभिः प्रेक्षकादिषु रसा इत्यावेदितमेव ।

रसः स एवेति स स्थायी भाव एव रसः । तस्यैव स्वाद्यत्वात् । स च सामाजिकेष्वेव1042 वर्तते । तेषामेव वर्तमानत्वात् । नानुकार्ये रामादौ । तस्यातीतत्वात् । काव्यस्य तत्र तात्पर्याभावाच्च । न हि रामादयः कथं रसिकाः स्युरिति कवयः काव्यं निर्मिमते । किं तर्हि ? सामाजिकाः कथं रसभाजो भवेयुरिति । किं च स्वस्त्रीसंयुक्तपुरुषचेष्टादर्शनात् लौकिकस्येव पुरुषस्य कविना रामसीतादिवृत्तान्तकथनेन श्रोतुः प्रतीतिव्रीडेर्ष्यारागद्वेषादयः प्रसजेयुः ।

  1. N.S.P. na rasānāṃ svādaḥ in place of na rasikānām svādaḥ(of A.T.A.).

  2. Bh.Nṛ., the commentator on the Sarasvatīkaṇṭhābharaṇa seems to hold a different view. He says pātragata eva mukhyo rasaḥ. sāmājike rasikaśabdas tu gauṇaḥ. See the extract quoted by Prof. Raghavan on page 422, in his work Bhoja’s Śṛṅgāra Prakāśa (ibid.). See also Note 252 to L.Ṭ.