विशेषलक्षणान्युच्यन्ते—तत्राचार्येण स्थायिनां रत्यादीनां शृङ्गारादीनां च पृथग् लक्षणानि विभावादिप्रतिपादनेनोदितानि । अत्र तु—

लक्षणैक्यं विभावैक्यादभेदाद् रसभावयोः ॥ ४७ ॥

क्रियत इति शेषः ।1075

तत्र तावच्छृङ्गारः—

रम्यदेशकलाकालवेषभोगादिसेवनैः ।
प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ।
प्रहृष्यमाणा शृङ्गारो मधुराङ्गविचेष्टितैः ॥ ४८ ॥

इत्थमुपनिबध्यमानं काव्यं शृङ्गारास्वादाय भवतीति । 1076रत्युपदेशपरमेतत् ।

नन्वाचार्येण रसभावयोः पृथग् लक्षणमुक्तं चेत् त्वयापि तद्वत् पृथगेव तयोर्लक्षणमुच्यताम् । तत्राह अत्रेति । स्थायिनः परिणतिविशेष एव हि रसः । अतस्तयोर्भेदाभावात् । अभिन्ना एव वस्तुतो विभावादयः । तेन तेषां लक्षणमपि तन्त्रेणोच्यत् इत्यर्थः । लक्षणैक्यमित्येतावति पर्यवस्यति सूत्रम् इति भाति । तेनाह क्रियत इति शेष इति । अत्र लक्षणैक्यं क्रियत इत्यर्थः 1077रत्युपदेशपरमेतदिति । एवमुपनिबध्यमाना रतिः शृङ्गारो भवतीत्युक्तम् । एतद् रत्युपदेशपरमेव । अपरि शृङ्गारप्रपञ्चस्य प्रतिपादयिष्यमाणत्वात् ।

  1. N.S.P. and A.T.A. vākyaśeṣaḥ. But Bh. Nṛ’s pratīka shows the reading given here.

    ↩
  2. N.S.P. kavyupadeśaparam etat.

    ↩
  3. Previous editions read kavyupadeśaparam etat. ratyupadeśaparam etat is found in all the MSS. and also in A.T.A.

    ↩