उपेक्षा तदवधीरणं यथा—
1120‘उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि साध्वी ।237
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥
किं गतेन न हि युक्तमुपैतुं कः प्रिये सुभगमानिनि मानः ।1121
रभसत्रासहर्षादे रसान्तरात् कोपभ्रंशो यथा ममैव1122—
अभिव्यक्तालीकः सकलविफलोपायविभव-
श्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् ।
इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा
कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम् ॥