आत्मस्थो यथा रावणः— जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं हारो वक्षसि यज्ञसूत्रमुचितं क्लिष्टा जटाः कुन्तलाः ।247 रुद्राक्षः स किलैष रत्नवलयश्चित्रांशुकं वल्कलं सीतालोचनहारि कल्पितमहो रम्यं वपुः कामिनः ॥
परस्थो यथा— भिक्षो मांसनिषेवणं प्रकृरुषे किं तेन मद्यं विना किं ते मद्यमपि प्रियं प्रियमहो वाराङ्गनाभिः सह । वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो भ्रष्टस्य1159 कान्या गतिः ॥
N.S.P. dāsasya.
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.