अत्र स्थायिनीति सति सप्तमीति व्याचष्टे यथेति ।
तत्र निर्वेदः—
तत्त्वज्ञानान्निर्वेदो यथा— प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥830
आपदो यथा— राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः । आस्वाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतच्चिरजीवितायाः ॥
ईर्ष्यातो यथा— धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः । न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसभटान् जीवत्यहो रावणः ॥831
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.