177 यथा माघे—

लुलितनयनताराः क्षामवक्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रसिनः केशपाशा- नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥832
शेषं निर्वेदवदूह्यम् ।

रत्याख्यं भावं व्यावर्तयन् व्याचष्टे निधुवनेति ।

अथ शङ्का—

अनर्थप्रतिभा शङ्का परक्रौर्यात् स्वदुर्नयात् ।
कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ ११ ॥

तत्र परक्रौर्याद् यथा रत्नावल्याम्—

ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥833

स्वदुर्नयाद् यथा वीरचरिते—

दूराद् दवीयो धरणीवराभं यस्ताटकेयं तृणवद् व्यधूनोत् ।
हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम् ॥834
अनया दिशान्यदप्यनुसर्तव्यम् ।

अथ श्रमः—

श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन् मर्दनादयः ।

  1. ११।२०
  2. ३।४
  3. २।१