अथ शङ्का—
अनर्थप्रतिभा शङ्का परक्रौर्यात् स्वदुर्नयात् ।
कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ॥ ११ ॥
तत्र परक्रौर्याद् यथा रत्नावल्याम्—
ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं
द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् ।
सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं
प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥833
स्वदुर्नयाद् यथा वीरचरिते—
अनया दिशान्यदप्यनुसर्तव्यम् ।दूराद् दवीयो धरणीवराभं यस्ताटकेयं तृणवद् व्यधूनोत् ।
हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम् ॥834